प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य प्रतिभाशाली-कार्यबलं कृत्रिमबुद्धिमत्तायाः विकासे सक्रिय योगदानाय सज्जम् अस्तिा कृत्रिम बुद्धिमत्ता-शिखर सम्मेलने आगामि-वैश्विक सहयोगे स्वीय लिंक्डइन् इत्यस्मिन् सामाजिकान्तर्जाल-सन्देशे श्रीमोदिना उक्तं यत् भारतं स्वीय-नागरिकान् शक्तिकरणाय कृत्रिम बुद्धिमत्तायां बृहत्कार्यं कर्तुमिच्छति। विभिन्नक्षेत्रेषु ए.आई. इत्यस्य परिवर्तन-प्रभावानां उल्लेखं कुर्वता प्रधानमन्त्रिणा प्रौद्योगिक्यां, नवाचारे, स्थास्थ्य सेवा-शिक्षयोः कृषिकार्ये च अस्य सकारात्मक- प्रभावेषु बलं प्रदत्तम्। ध्येयं यत् भारतं अस्य दिसम्बरमासस्य द्वादशदिनांकात् चतुर्दशदिनांकं यावत् नवदिल्ल्यां बार्षिक-शिखर सम्मेलनस्य-अध्यक्षतां करोति। कार्यक्रमस्यास्य उद्घाटन प्रधानमन्त्रिणा क्रियतेति आशास्ते।
भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment