प्रधानमन्त्री नरेन्द्रमोदी सशस्त्रसेनाध्वजदिवसस्य अवसरे राष्ट्रस्य वीरसैनिकानाम् साहसं, त्यागं, कर्तव्यप्रतिबद्धतां च प्रशंसितवान्। सामाजिकमाध्यमेषु प्रकाशितेन पोस्ट् मध्ये प्रधानमन्त्रिणा उक्तं यत् राष्ट्ररक्षणाय सशस्त्रसेनानां समर्पणं अतुलनीयम् अस्ति। सशस्त्रसेनानां ध्वजदिवसस्य कोषे योगदानं दातुं सर्वेभ्यः अपि आग्रहं कृतवान् ।
सूचनाप्रसारणमन्त्री अनुरागसिंहठाकुरः अपि अद्य सशस्त्रसेनाध्वजदिवसस्य अवसरे सर्वेभ्यः वीरसशस्त्रसेनाभ्यः नमस्कारं कृतवान्। सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये ठाकुरमहोदयः अवदत् यत् ते अस्माकं राष्ट्रस्य रक्षकाः सीमारक्षकाः च सन्ति। श्री ठाकुरः देशवासिनां आह्वानं कृतवान् यत् तेषां निस्वार्थसेवां स्वीकृत्य स्वपरिवारस्य कल्याणे योगदानं दातुं सशस्त्रसेनायाः ध्वजदिवसस्य कोषे अधिकं योगदानं कुर्वन्तु।
प्रधानमन्त्रिणा राष्ट्रस्य वीरसैनिकानाम् साहसस्य, त्यागस्य, कर्तव्यप्रतिबद्धतायाः च प्रशंसा कृता
![](https://himsanskritam.com/wp-content/uploads/2023/12/सशस्त्र-सेना-दिवस-पर-प्रधानमन्त्री.png)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment