प्रधानमन्त्रिणा मोदीमहोदयेन भारतस्य प्रथम-हाईड्रोजन्-रेलयानस्य उद्घाटनं कृतम्, विकासपरियोजनानां च शिलान्यासः
प्रधानमन्त्रिणा नरेन्द्रमोदिना हरियाणा-राज्यस्य जिन्द-सोनीपत-नगरयोः मध्ये भारतस्य प्रथमं हाईड्रोजन-शक्तियुक्तं रेलयानं जिन्द-रेल-स्थानके हरितध्वजं प्रदर्थ्य उद्घाटितम्, यत् स्वच्छं तथा सुस्थिरं रेल-परिवहनं प्रति प्रमुखं पदाक्षेपं निर्दिशति । प्रधानमन्त्रिणा राष्ट्रिय राजमार्ग-परियोजनया सह चतुर्दश सहस्र-कोटिरूप्यकाणां विभिन्नानां विकास परियोजनानां शिलान्यासं, लोकार्पणम् च कृतम् । सः सप्त-पञ्चाशदधिकैक-शतं किलोमीटर परिमितं सुदीर्घ दिल्ली-अमृतसर-कटरा-द्रुतमार्गमपि राष्ट्राय समर्पितवान्, येन दिल्ली-कटरा-नगरयोः मध्ये प्रायः षट्होरा यावत्, देहली-अमृतसर-नगरयोः मध्ये च यात्राकालः प्रायः चतुर्होरा यावत् न्यूनीभवति। जनसमूहं सम्बोधयन्, प्रधानमन्त्री श्रीमोदी अवदत् यत् भारतीय-रेल-विभागे विगत-द्वादशवर्षेषु महतीं परिवर्तनं जातम्, तथा च हाईड्रोजन्-रेल इतीदं ऐतिहासिकं सोपानम् इति वर्णयन् भारतस्य इतिहासे जिन्द-प्रदेशाय विशिष्टं स्थानं प्रदत्तम्।
स्वदेशीय-हाईड्रोजन-तन्त्रज्ञानस्य विकासस्य भारतस्य संकल्पं प्रतिबिम्बयति- अश्विनीवैष्णवः
अस्मिन् अवसरे रेलमन्त्री अश्विनीवैष्णवः, देशस्य प्रथमस्य हाईड्रोजन-शक्तियुक्तस्य रेलयानस्य प्रचालनम् ऐतिहासिकं साफल्यम् च उक्तवान्, यत् एतत् स्वदेशीय-हाईड्रोजन-तन्त्रज्ञानस्य विकासस्य भारतस्य संकल्पं प्रतिबिम्बयति । पश्चात् प्रधानमन्त्रिणा चण्डीगढनगरे स्वास्थ्यक्षेत्राणि समेत्य प्रमुखेषु क्षेत्रेषु अनेकाः विकासपरियोजनाः समारब्धाः। जनसमूहं सम्बोधयन् प्रधानमन्त्री श्रीमोदी अवदत् यत् चण्डीगढस्य विकासेन जनानां जीवनं परिवर्तितम् अस्ति, परन्तु अस्य लाभः नगरात् परं विस्तारितः अस्ति, हरियाणा, पञ्जाब, हिमाचलप्रदेशस्य जनान् अपि भवति । सः अवदत् यत् अद्य पी. जी. चण्डीगढे उन्नत स्वास्थ्य-सुविधाः सन्ति । चण्डीगढस्य स्वास्थ्य सेवायाः विस्तारः प्रचलति, येन लक्षशः जनाः उपकृताः भविष्यन्ति । प्रधानमन्त्री पञ्जाबस्य जलन्धर-नगरमपि गतवान् यत्र सः प्रायः सार्ध-पञ्च-सहस्र-कोटिरूप्यकाणां रेल-मार्ग-अवसंरचना-परियोजनानां उद्घाटनम्, शिलान्यासं च कृतवान्।
प्रधानमन्त्रिणा मोदीमहोदयेन भारतस्य प्रथम-हाईड्रोजन्-रेलयानस्य उद्घाटनं कृतम्, विकासपरियोजनानां च शिलान्यासः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
