भारतं विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भवितुं मार्गे अस्ति-ः सेबी-अध्यक्षः तुहिनकान्तपाण्डेयः
भारतीय-प्रतिभूति-विनिमय-बोर्डस्य (SEBI) अध्यक्षः तुहिनकान्तपाण्डेयः उक्तवान् यत् भारतं विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भवितुं मार्गे अग्रसरति। अनेन धनि-निवेशकानां संख्यायाम् अपि वृद्धिः भविष्यति।मुंबई-नगरे एकस्मिन् कार्यक्रमे सः अवदत् यत् ‘पोर्टफोलियो प्रबन्धन सेवा’ (PMS) संस्थाः उच्च-जोखिमयुक्तानां (High-risk) निवेशानां प्रबन्धनं कुर्वन्ति, अतः तासां समीपे सुदृढं आन्तरिक-नियन्त्रणम्, व्यावसायिक-इकाईषु स्पष्टं विभाजनं तथा अनुशासितं दस्तावेजीकरणं भवितुं अनिवार्यम् अस्ति।पीएमएस (PMS) उद्योगं सुदृढीकर्तुं कृत-प्रयासानां विषये श्री पाण्डेयः अवदत् यत् सेबी-संस्थया ‘डिजिटल-ऑनबोर्डिंग’ प्रक्रिया सुव्यवस्थिता कृता तथा च ‘प्रकटीकरण-दस्तावेजाः’ (Disclosure documents) सरलीकृताः। तेन प्रतिपादितं यत् अनिवार्य-शुल्क-गणना-यन्त्रस्य (Fee calculation tool) प्रकटीकरणेन निवेशकानां कृते पारदर्शिता वर्धिता अस्ति।
भारतं विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भवितुं मार्गे अस्ति-ः सेबी-अध्यक्षः तुहिनकान्तपाण्डेयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
