महिला प्रिमियर् लीग् (WPL) २०२६: रॉयल चैलेंजर्स बेङ्गलुरु दलं द्वितीयवारं विश्वविजेता
रॉयल चैलेंजर्स बेङ्गलुरु (RCB) दलेन देहली कैपिटल्स (DC) दलं पराजित्य महिला प्रिमियर् लीग् इत्यस्य चतुर्थ-ऋतोः (Season) उपाधिः विजिता। वडोदरायाः कोटाम्बी क्रीडाङ्गणे प्राप्तक्रीडायां आरसीबी-दलेन देहली-दलं षट्-क्रीडकस्तम्भैः (6 wickets) पराजितम्। अनेन विजयेन सह बेङ्गलुरु-दलं मुम्बई इण्डियन्स् दलस्य अनन्तरं द्विवारं एतां उपाधिं जेतुं द्वितीयं दलं जातम्। मुम्बई दलेन २०२३, २०२५ तमे वर्षे च एषः विजयः प्राप्तः आसीत्। आरसीबी दलेन च २०२४, २०२६ तमे वर्षे च। देहली कैपिटल्स दलं चतुर्ष्वपि ऋतुषु अन्तिमक्रीडां (Final) क्रीडित्वा अपि अद्यापि विजयश्रीं प्राप्तुं न शक्तवत्।
क्रीडायाः विवरणम्
देहली-दलेन प्रथमं बल्लेबाजीं कुर्वता २० चक्रेषु ४ क्रीडकानां हानौ २०३ धावनाङ्काः अर्जिताः। नायिका जेमिमा रोड्रिग्सः ३७ कन्दुकेषु ५७ धावनाङ्कान् चकार। चिनेल हेनरी अपि १५ कन्दुकेषु ३५ धावनाङ्कान् अकरोत्।२०४ धावनाङ्कानां लक्ष्यं प्राप्तुं प्रवृत्तस्य आरसीबी दलस्य आरम्भः शुभः नासीत्, ग्रेस हैरिसः (९ धावनाङ्काः) शीघ्रमेव निर्गता। तदनन्तरं नायिका स्मृति मन्धाना (८७ धावनाङ्काः) तथा जॉर्जिया वॉल् (७९ धावनाङ्काः) इत्यनयोः मध्ये १६५ धावनाङ्कानां महती सहभागिता अभवत्। अन्ते आरसीबी दलेन द्वौ कन्दुकौ शेषौ तिष्ठति सति लक्ष्यं प्राप्तम्।
पुरस्कारराशिः (Prize Money)
विजेतृ-उपविजेतृदलेभ्यः प्रदत्ता राशिः गतवर्षवत् एव आसीत्।
विजेता (RCB): ६ कोटिः (६,००,००,०००) रूप्यकाणि।
उपविजेता (DC): ३ कोटिः (३,००,००,०००) रूप्यकाणि।
WPL पुरस्काराणां सूची
पुरस्कारः विजेताराशिः
अत्युपयोगी क्रीडकः (MVP)सोफी डिवाइन ५ लक्षं रूप्यकाणि
ऑरेंज कैप (सर्वाधिक धावनाङ्काः)स्मृति मन्धाना (३७७) ५ लक्षं रूप्यकाणि
पर्पल कैप (सर्वाधिक विकेट)सोफी डिवाइन (१७)५ लक्षं रूप्यकाणि
सर्वाधिकं षट्काः हरमनप्रीत कौर५ लक्षं रूप्यकाणि
सर्वाधिकं डोट् कन्दुपाताः लॉरेन बेल्५ लक्षं रूप्यकाणि
मैच आईक्यू ऑफ द सीजन- सोफी डिवाइन५ लक्षं रूप्यकाणि
श्रेष्ठः स्ट्राइक रेट ग्रेस हैरिस५ लक्षं रूप्यकाणि
उदीयमानः क्रीडकः (Emerging Player)नन्दिनी शर्मा५ लक्षं रूप्यकाणि
फेयर प्ले पुरस्कारः मुम्बई इण्डियन्स्५ लक्षं रूप्यकाणि
अन्तिमक्रीडायाः श्रेष्ठक्रीडिका (Player of the Match) स्मृति मन्धाना२.५ लक्षं रूप्यकाणि
महिला प्रिमियर् लीग् (WPL) २०२६: रॉयल चैलेंजर्स बेङ्गलुरु दलं द्वितीयवारं विश्वविजेता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
