HP Govt Calendar 2026 – हिमाचलसर्वकारस्य वार्षिकपञ्चाङ्गस्य मुख्यमंत्रिणा कृतं विमोचनम्

हिमसंस्कृतवार्ता: – शिमला।
मुख्यमंत्री सुखविंदरसिंहसुक्खुः मङ्गलवासरे राज्यसर्वकारस्य २०२६ वर्षस्य पञ्चाङ्गानां विमोचनं कृतवान्। एतेषु पञ्चाङ्गेषु राज्यसर्वकारस्य विविधजनकल्याणविकासयोजनानां दर्शनं प्राप्यते। अस्मिन्नवसरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् सर्वकारस्य प्रमुखे पञ्चाङ्गे”चिट्टा-मुक्त-हिमाचलम्” इति विषयाधारितं पञ्चाङ्गम् हिमाचलसर्वकारस्य मादकद्रव्य-रहित-हिमाचलस्य प्रतिबद्धतां दृढतया प्रदर्शयति |अस्मिन् अवसरे मुख्यमंत्रिणा हिमाचलप्रदेशभवनादिसन्निर्माणकर्मककल्याणमण्डलस्य पञ्चाङ्गमपि विमोचितम्।मुख्यमंत्री सुक्खुः अवदत् यत् जनहितं सामाजिकचिन्तानां च प्रतिबिम्बं कुर्वन्तः एते पञ्चाङ्गाः अस्माकं प्राथमिकतानां प्रतीकाः सन्ति।

