Shimla IGMC Case – आईजीएमसी – हिंसायाम् उभयोः पक्षयोः दोषः अस्ति, परन्तु सर्वकारेण एकपक्षीयः निर्णयः कृतः – जयरामठाकुरः
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः अकथयत् यत् राज्यसर्वकारेण वैद्यस्य विरुद्धं त्वरितरूपेण कठोरः निर्णयः कृतः। सर्वकारः पक्षद्वयेन सह उपविश्य मध्यस्थं अन्वेष्टुम् शक्नोति स्म। शुक्रवासरे मण्डीनगरे एकस्मिन् कार्यक्रमे भागं गृहीत्वा सः मीडियाभिः सह भाषितवान्। जयरामठाकुरः अवदत् यत् राज्यसर्वकारेण त्वरितरूपेण विचारणीयनिर्णयस्य प्रवृत्तिः स्वीकृता अस्ति। अस्यां सम्पूर्णायां घटनायां वैद्यस्य निलम्बनस्य निर्णयः समीचीनः आसीत्, यतः एषः पाठः, भविष्ये परिष्कारस्य मार्गः च अभवत् तथापि सर्वकारस्य त्वरितनिर्णयः कठोरः अस्ति। जयरामठाकुरः राज्यसर्वकाराय परामर्शं दत्तवान् यत् कस्यचित् स्थूलसाक्ष्यं नास्ति चेदपि उभयपक्षयोः दोषः दृश्यते। एतादृशे सति सर्वकारः पक्षद्वयेन सह उपविश्य मध्यस्थं मार्गस्य अन्वेषणं कर्तुं शक्नोति। जयरामठाकुरः अवदत् यत् एतादृशाः परिस्थितयः बहुधा उत्पद्यन्ते, परन्तु अधुना अस्माभिः तासां समाधानार्थं अग्रे गन्तव्यम् येन भविष्ये अपि एतादृशाणां घटनानां पुनरावृत्ति: न भवेयु:। जयरामठाकुरः अपि १०८, १०२ एम्बुलेन्ससेवानां कर्मचारिभिः आन्दोलनस्य प्रतिक्रियाम् अददत्। जयरामठाकुरः अवदत् यत् एते कर्मचारिण: राज्यसर्वकारात् स्वाधिकारं याचन्ते, परन्तु तेषां आग्रहेषु सर्वकारः किमपि ध्यानं न ददाति। एतादृशी सेवाकर्मचारिणां प्रति सर्वकारेण एतादृशी वृत्तिः न ग्रहीतव्या। एषः जनस्वास्थ्यसम्बद्धः विषयः अस्ति, अतः सर्वकारेण यथाशीघ्रं समाधानं अन्वेष्टव्यम्।
