फागली राजकीयसंस्कृतमहाविद्यालये राज्यस्तरीयाः संस्कृत–प्रतियोगिताः सफलतया सम्पन्नाः
हिमाचलप्रदेशसंस्कृतअकादम्या: च राजकीयसंस्कृतमहाविद्यालयस्य संयुक्ततत्वावधानेन १० तथा ११ दिसम्बरदिनाङ्कयोः द्विदिनीयाः राज्यस्तरीयाः महाविद्यालयीय–संस्कृत–प्रतियोगिताः सुव्यवस्थितरूपेण आयोजिताः। प्रदेशस्य विभिन्न–महाविद्यालयेन आगताः प्रतिभागिनः श्लोकोच्चारणम्, वैदिकमन्त्रपाठः, संस्कृत–भाषणम्, सद्यः–भाषणम्, सूत्रान्ताक्षरी, संस्कृत–गीतिका, लघु–प्रश्नोत्तरी इत्यादिषु प्रतियोगितायां उत्साहेन सहभागं कृतवन्तः।कार्यक्रमस्य शुभारम्भः फागली–क्लब–सभागारे दीप–प्रज्वलनं च वैदिक. M मंगलाचरणेन सम्पन्नः। उद्घाटनसत्रस्य मुख्य–अतिथिः हिमाचल प्रदेश उच्चतर–शिक्षाविभागस्य निदेशकः डॉ. अमरजीतकुमारशर्ममहाभागा: सन्ति |मुख्यातिथि महाभागा: स्वस्य उद्बोधनेन विद्यार्थिनां सम्बोधन्म अकरोत – यत् संस्कृतभाषा न केवल परम्परा, अपि तु तर्क–व्यवस्थायाः, व्याकरण–शास्त्रस्य, अभिव्यक्तेः च अत्यन्त वैज्ञानिक–रूपा भाषा अस्ति। प्रतियोगिताः विद्यार्थिनां भाषिक–दक्षतायाः वास्तविक–मूल्यांकनं करोतिः इति ते अभ्यचक्षत।
उद्घाटनानन्तरं छात्रैः कालिदासकृते अभिज्ञानशाकुन्तलम् नाम नाट्कस्य –प्रदर्शनं सम्यक् रूपेण प्रस्तुयंती , यस्य प्रशंसा निर्णायकैः प्रेक्षकैः च अकरोत। प्रथम–दिने समस्ताः स्पर्धाः नियत–समये सम्पन्नाः, सायंकाले च आयोजितः “संस्कृत–सन्ध्या” कार्यक्रमः आयोजनस्य सांस्कृतिक–गरिमां वर्धितवान्। द्वितीयदिने वैदिक–मन्त्रपाठः, सद्यः–भाषणम्, सूत्रान्ताक्षरी, लघु–प्रश्नोत्तरी इत्यादयः मुख्य–स्पर्धाः सम्पन्नाः। प्रतिभागिभिः छात्रा: भाषाशुद्धिः, त्वरित–विचारशक्ति, प्रस्तुती–कौशलम् इत्यादीनि प्रभावशालीरूपेण प्रदर्शितानि। निर्णायक–मण्डले उक्तम् यत् अस्मिन् वर्षे प्रतिभागिनां मध्ये नवोत्साह च दक्षताया: रूपम् दृश्यते |समापन–सत्रे मुख्य–अतिथिः श्री एस्. रंगनाथन, अध्यक्षः डॉ. लोकेन्द्रशर्मा च विजेतृभ्यः पुरस्कारान् वितरितवन्तौ, च तान् उत्साहितवन्तौ। उभाभ्यां संस्कृत–अध्ययनस्य व्यापक–समकालीन–परिप्रेक्ष्ये आवश्यकत्वं निर्दिष्टम्। विजेतारः (विधा–अनुसारम्)
श्लोकोच्चारण–प्रतियोगिता:
प्रथम — सीमा (राजकीयसंस्कृतमहाविद्यालयः, सुन्दरनगरम्)
संस्कृत–भाषण–प्रतियोगिता:
प्रथम — सूर्यांशः शर्मा (राज. सं. महा., तुंगेश्)
सद्यः–भाषण–प्रतियोगिता:
प्रथम — ऋषभः (राज. सं. महा., नाहन्)
सूत्रान्ताक्षरी–प्रतियोगिता:
प्रथम — नितिन् / रीना (राज. सं. महा., नाहन्)
प्रथम — अक्षयः / भुवनेश्वरी (राज. सं. महा., क्यारटू)
वैदिक–मन्त्रपाठ–प्रतियोगिता:
प्रथम — राघवः शर्मा (श्री–ज्वालाजी–वेदविद्यालयः, ज्वालामुखी)
संस्कृत–गीतिका–प्रतियोगिता:
प्रथम — कृतज्ञः शर्मा (राज. सं. महा., सोलन)
लघु–प्रश्नोत्तरी–प्रतियोगिता:
प्रथम — सक्षमः मन्हास् एवं अंकुशः शर्मा
(राजकीयसंस्कृतमहाविद्यालयः, फागली)
कार्यक्रम–संयोजकः डॉ. मुकेशः शर्मा अवदत् यत् अस्य आयोजनस्य लक्ष्यं संस्कृतभाषाम् पाठ्य–सीमायाः बहिः नीत्वा तां जीवन्ताम्, सक्रियाम्, प्रतियोगी–रूपेण प्रस्तुतुम्। समग्रः द्विदिनीयः कार्यक्रमः अनुशासित–पर्यावरणे सफलतया सम्पन्नः।
फागली राजकीयसंस्कृतमहाविद्यालये राज्यस्तरीयाः संस्कृत–प्रतियोगिताः सफलतया सम्पन्नाः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
