हिमाचलराजभवनस्य नाम अधुना लोकभवनम्; प्रक्रिया राजभवनसम्बद्धानां आधिकारिकाभिलेखानां नामपट्टिकानां च परिवर्तनम् आरभते
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशे राज्यपालस्य अनुमोदनं प्राप्य राजभवनस्य नाम औपचारिकरूपेण लोकभवनम् इति परिवर्तनं कृतम् अस्ति। मंगलवासरे अस्य विषये सूचना प्रकाशिता। अधिसूचनानुसारं सर्वा: आधिकारिकपत्राचाराः, अभिलेखा:, भवनस्य चिह्नानि, जालपुटानि, अन्ये च अभिलेखाः अधुना राजभवनस्य स्थाने लोकभवननाम्न: उपयोगं करिष्यन्ति। राज्यपालस्य शिवप्रतापशुक्लस्य अनुमोदनस्य अनन्तरं परिवर्तनस्य औपचारिकप्रक्रिया आरब्धा अस्ति। विभागाः प्रासंगिका: अभिलेखान् अद्यतनं कुर्वन्ति, भवनस्य नामपट्टिकासु अन्यचिह्नेषु च परिवर्तनं क्रियते। अद्यैव केन्द्रसर्वकारेण सर्वेषु राज्येषु राजभवनस्य नाम लोकभवनम् इति परिवर्तयितुं निर्णयः कृतः। तदनुरूपं हिमाचले अधिसूचना कृता।
