Nasha Mukat Himachal – बञ्जारे २ किलो ५०५ ग्राम-चरसद्रव्यं गृहीतम्, एकः गृहीतः, अन्यः पलायितः
हिमसंस्कृतवार्ता: – कुल्लू:।
कुल्लूमण्डलस्य उपविभागस्य बञ्जारे पुलिसदलेन विगतरात्रौ २ किलो ५०५ ग्रामं चरसद्रव्यं गृहीत्वा आरोपितद्वयं गृहीतम्। पुलिसदलम् अभियुक्तानां प्रश्नोत्तरं कुर्वन् आसीत् तदा एकः अभियुक्तः घटनास्थलात् पलायितः। अधुना पुलिसदलं पलायितस्य अभियुक्तस्य अन्वेषणं कुर्वन् अस्ति। पुलिसेन चरसद्रव्यं गृहीत्वा अधुना गृहीतानाम् अभियुक्तानां न्यायालये प्रस्तुतीकरणस्य प्रक्रियां सम्पन्नं कुर्वन् अस्ति।
बञ्जारपुलिसस्य विवरणानुसारं पुलिसदलं खुदनसेतुसमीपे निरीक्षणं कुर्वन् आसीत् यदा तेन अभियुक्तौ अन्वेषणार्थं रोधितौ। अभियुक्तद्वयस्य परीक्षणं कृत्वा तेषां हस्तात् चरसमादकद्रव्यं प्राप्तम्। चरससहित: गृहीत: अभियुक्त: बृजलाल: (४८ वर्ष), निवासी ब्रेहल-कमलाह, तहसील धर्मपुरम्, जिला मंडी, गिरधारीलाल: (४० वर्षम्), मंजेर पत्रालय: चोनलांगढ़:, तहसील धरमपुरम्, जिला मंडी निवासी वर्तते, परन्तु गिरधारीलाल: अकस्मात् स्थलात् पलायित:। पुलिसाधीक्षक: कुल्लू: मदनलालकौशलः अवदत् यत् अभियुक्तस्य अन्वेषणं क्रियते, शीघ्रमेव तस्य गृहीतत्वं भविष्यति। सः अवदत् यत् कुल्लूमण्डले मादकद्रव्याणां विरुद्धं पुलिसबलं निरन्तरं कार्यविधिं करोति, मादकद्रव्यव्यापारिणः च सर्वथा न मुक्ताः भविष्यन्ति।
