By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सम्भूय करिष्यामः – आदर्शसंस्कृतकार्यम् -प्रो.वाई.एस.रमेशवर्याः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > सम्भूय करिष्यामः – आदर्शसंस्कृतकार्यम् -प्रो.वाई.एस.रमेशवर्याः
संस्कृतगतिविधयः

सम्भूय करिष्यामः – आदर्शसंस्कृतकार्यम् -प्रो.वाई.एस.रमेशवर्याः

जगदीश डाभी
Last updated: 2025/12/07 at 9:35 AM
जगदीश डाभी
Share
1 Min Read
SHARE

सम्भूय करिष्यामः – आदर्शसंस्कृतकार्यम् -प्रो.वाई.एस.रमेशवर्याः

वार्ताहर: – जगदीश डाभी


संस्कृतस्य कर्तव्यनिष्ठानां विदुषां सरलसंस्कृतप्रशिक्षणकार्यक्रमस्य धौरेयाणां तथा केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरस्य पूर्वनिदेशकानां प्रो.वाई.एस.रमेशवर्याणां सेवानिवृत्तिसम्माने आयोजितं सद्यस्कभूतं सौप्रस्थानिकं सम्मेलनम् अत्यन्तं सौहार्दपूर्णे शास्त्रीयगरिम्णि सांस्कृतिकवातावरणे सफलतापूर्वकं सम्पन्नमभूत्।

कार्यक्रमस्य शुभारम्भः शोधच्छात्रया शालिन्या कृतेन वैदिकेन मङ्गलाचरणेन तथा शोधच्छात्रया राधया लौकिकेन मङ्गलाचरणेन चाभवत्।ततः परं प्रास्ताविकं स्वागतभाषणञ्च डा.मनीषजुगरानवर्येण (सहायकाचार्येण के.स.वि.)
शिष्यैः प्रशिष्यैश्च सम्मानकार्यक्रमस्य विषयेऽबोधयत्।
राष्ट्रपतिपुरस्कारसम्मानितः डा.टीगणेशपण्डितोऽवदत् यत् आचार्यवर्यस्य व्यक्तित्वं सर्वतोऽनुकरणीयमस्ति।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलसचिवस्य प्रो.मुरलीकृष्णवर्यस्य विशेषानुग्रहपाथेयं सर्वेऽप्राप्नुवन्।रविन्द्रः,डा.दीपकभारद्वाजः
(युवतरङ्गसंस्कृतनाट्यदलम्), डा.नितिनाचार्यः,डा..प्रमोदबुटेलियाजी, डा.अभिषेकशर्मा, डा.घनश्यामहरदेनिया, डा.महेशपारीकः, मधुसूदनः(संस्कृतभारती),
शालिनीसिंहः, डा.यागेशपाण्डेय इति प्रभृतयोऽनेके शोधार्थिनः शिक्षकाः विद्यार्थिनश्च गुरुभिस्सह यापितनां प्रेरणास्पदानां क्षणानां स्मारकं स्वानुभवम् अवोचन् तथा गुरुवर्याणां जीवनं प्रेरणास्पदम् इति अब्रुवन्।

अध्यक्षीयभाषणे प्रो.वाई.एस.रमेशवर्याः तत्सौप्रस्थानिकं विशिष्टं कर्तुं सर्वेभ्यः धन्यवादं कथयमानाः संस्कृतमयं भारतं रचयितुं सङ्कल्पम् प्रकटिवन्तः तथा दिवानिशं संस्कृतकार्यं कर्तम् आह्वानकुर्वन्।

कार्यक्रमस्य समापने अङ्कितकुमारशर्मा सर्वैः वक्तृभिः सह कार्यक्रमे प्रत्यक्षाप्रत्यक्षसहयोगिभ्यः धन्यवादज्ञापनमकुर्वन्
आयोजनसमितिसदस्यान् डा.नरेशसिंहं, डा.अभिनवं,कृष्णकान्तं प्रौद्योगिकीसहयोगिनश्च सर्वान् प्रति कार्तज्ञ्यभावम् प्राकाशयत्।
कार्यक्रमस्य सञ्चालनं सुरभारतीसमुपासको दीपकवात्स्यो राधाकान्तशाण्डिल्यश्चाकरोत्। कार्यक्रमस्य प्रसारणं “सुरभारतीसमुपासकाः” तथा “सरलसंस्कृतशिक्षणम्” इत्यत्र अभवत्।समाचारपत्रेषु प्रकाशनं नरेन्द्रदौतोलियामहोदयेन कृतम्। अस्मिन्नेव दिवसे धर्मपत्नीभिः सह प्रो.रमेशवर्यैः गोशालाया गोपालकानां सम्माननम् अकरोत्।

आसमाप्तं यावत् कार्यक्रमे विभिन्नराज्येभ्यः सम्पृक्ताः शिक्षकगणाः शोधार्थिनो विद्यार्थिनो विद्वज्जनाश्च सद्यस्कमाध्यमेन समुपस्थिता आसन्।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy1
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article Fourlane CNG Service – कीरतपुर– मनाली चतुष्पंक्तिराजमार्गे बलोहात् सिस्सुपर्यन्तं प्रति चत्वारिंशत् किलोमीटरान्तराले सीएनजी- सुविधा उपलब्धा भविष्यति 
Next Article “हिमाचलप्रदेशे अवैधखननस्य, तस्करयुद्धं च अधुना तीव्रगत्या प्रचलति। मुख्यमन्त्री, कृपया ध्यानं दद्यात्”- जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?