कर्मचारिभ्य: दीपावल्या: उपहार:- मुख्यमंत्री सुक्खुः त्रिप्रतिशतमहार्घतावृत्ति: दातुं घोषितवान्

हिमसंस्कृतवार्ता:- शिमला।
सुक्खुसर्वकारेण हिमाचलप्रदेश- सर्वकारीय- कर्मचारिभ्यः दीपावल्या: उपहारः दत्तः। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे राज्यविद्युत्मण्डलस्य कर्मचारीसंघस्य राज्यसम्मेलने त्रिप्रतिशतमहार्घतावृत्ति: दातुं घोषणां कृतवान्। मुख्यमंत्रिणा बजटे एतत् घोषितम् आसीत्, परन्तु दुर्बलवित्तीयस्थित्याः कारणात् जूनमासे भुक्तिः कर्तुं न शक्यते स्म। २०२५ तमस्य वर्षस्य अप्रैलमासस्य प्रथमदिनात् सितम्बर-मासपर्यन्तं अवशिष्टांशधनं दीपावलीत: पूर्वं कर्मचारिणां वित्तकोषसंख्यासु निक्षिप्तं भविष्यति। नवम्बरमासे कर्मचारिभ्यः देयस्य अक्तूबरमासस्य वेतनेन वृत्तिना च सह महार्घतावृत्ति: योजिता भविष्यति।
अपि च जुलाई २०२३ तः मार्च २०२५ पर्यन्तं महार्घतावृत्ते: अवशिष्टांशस्य भुक्तिविषये शीघ्रमेव पृथक्कतया निर्णय: स्वीकृत्य अधिसूचना निर्गता भविष्यति तदतिरिक्तं बाह्याधारेण नियुक्तकर्मचारिण: दुर्घटनाया: सन्दर्भे सर्वकाराद् क्षतिपूर्तिं प्राप्नुयुः। तत्काल प्रभावेण पदोन्नति: क्रियते। विद्युत्मण्डले ओपीएस इत्यादीन् निर्णयान् कथम् अधिकं कार्यान्वितुं शक्यते इति निर्णयः क्रियते। कर्मचारिणां विरुद्धं प्रवेशितानि आरोपपत्राणि निवृत्तानि भविष्यन्ति।
राज्यविद्युत्मण्डलकर्मचारिसङ्घस्य राज्यमहासम्मेलनं बुधवासरे शिमलानगरे आयोजितम्। राज्यस्य अतिथिगृहे पीटर हॉफ इत्यत्र आयोजितस्य सम्मेलनस्य समापनसमारोहे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मुख्यातिथिरूपेण भागं गृहीतवान्। सः संघस्य स्मारिकाम् अपि विमोचितवान्। संघस्य महासचिवः हीरालालवर्मा इत्यनेन उक्तं यत् १९७१ तमे वर्षे संघस्य निर्माणम् अभवत्।

त्रिलोकठाकुर: मुख्यमंत्रिण: धन्यवादं ज्ञापितवान्
हिमाचलप्रदेश- अराजपत्रित- कर्मचारीसेवा- महासंघस्य प्रदेशाध्यक्ष: त्रिलोकठाकुर: मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: धन्यवाद: ज्ञापितवान्। सः अवदत् यत् मुख्यमन्त्री कर्मचारिणां प्रति संवेदनशीलता उत्तरदायित्वं च प्रशंसनीयम् अस्ति। अक्तूबरमासस्य वेतने त्रिप्रतिशतं महार्घतावृत्ति: समाविष्टाः, दिवालीत: पूर्वं अवशिष्टांशस्य मुक्तिः च तस्य कर्मचारी- केन्द्रितपद्धतेः उदाहरणानि सन्ति त्रिलोकठाकुरः अवदत् यत् मुख्यमन्त्री प्रत्येकस्य कर्मचारीविषयस्य शीघ्रं समाधानं सुनिश्चितं कुर्वन् अस्ति। संघेन शीघ्रमेव सूचनां निर्गन्तुम् अपि अनुरोधः कृतः, येन कर्मचारिणः समये सम्बलं, तेषाम् अवशिष्टांशं च प्राप्तुं शक्नुवन्ति। अस्मिन्नवसरे महामंत्री राजीवचौहान:, वरिष्ठ-उपाध्यक्ष: रविन्द्र मेहता, महासचिव: मनीष गुलेरिया, कुल्लो: अराजपत्रित- कर्मचारीमहासंघस्य अध्यक्ष: संजयभारद्वाज:, मंडीजनपदस्य अशिक्षण- कर्मचारीमहासंघस्य अध्यक्ष: राजेशराव:, महासचिव: महेशकुमार:, हितेन्द्रठाकुर:, मुकेशकुमार: अन्ये च महासंघस्य वरिष्ठपदाधिकारिण: उपस्थिता: अभवन्। हिमाचलप्रदेश- अराजपत्रितकर्मचारी- सेवा महासङ्घः मुख्यमन्त्रिणः कर्मचारीमैत्रीपूर्णस्य दृष्टिकोणस्य प्रशंसाम् अकरोत्, तत् कर्मचारिणां कृते प्रेरणादायकम् उत्साहवर्धकं च पदम् इति उक्तवान्।
