राष्ट्रीयवार्ताः- भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास केन्द्रस्य स्थापनायै चिकित्सौषधि-क्षेत्रे सहयोगाय च सन्धिज्ञापने हस्ताक्षराणि जातानि।
हिमसंस्कृतवार्ता: – प्रधानमंत्री नरेंद्रमोदी विंडहोक-स्थिते स्टेटहाउस इत्यत्र नामीबियायाः राष्ट्रपतिना नेटुम्बो-नंदी-नदैतवा इत्यनेन सह प्रतिनिधिमंडलस्तरीय वार्ताम् अकरोत् । अस्याः वार्तायाः उद्देश्यं महत्वपूर्ण-क्षेत्रेषु सहयोगस्य नवीनक्षेत्राणाम् अन्वेषणं विधाय द्वयोः देशयोर्मध्ये आर्थिक-सहभागितायाः सुदृढीकरणम् आसीत् । भारतनामीबिया-देशयोर्मध्ये उद्यमिताविकास-केन्द्रस्य स्थापनायै एकस्मिन् सन्धिज्ञापने हस्ताक्षराणि जातानि । द्वयोः देशयोर्मध्ये चिकित्सौषधि-क्षेत्रे अपि सहयोग-विषयके सन्धिज्ञापने हस्ताक्षराणि जातानि । यात्राकाले प्रधानमन्त्री नामिबिया-देशस्य संस्थापकस्य तथा प्रथमराष्ट्रपतेः स्वर्गीयस्य डा. सैम-नुजोमा-वर्याय श्रद्धाञ्जलिम् अपि प्रायच्छत् । प्रधानमन्त्री नरेन्द्रमोदी नामिबियायाः संसत्-सत्रं सम्बोधितवान्, नामीबियायाः सर्वोच्च-नागरिकसम्मानम् अपि प्राप्तवान् । द्वैपाक्षिकसम्बन्धान् सुदृढं कर्तुं योगदानार्थं श्रीमोदी नामिबिया-देशस्य सर्वोच्च-नागरिकपुरस्कारेण सम्मानितः । एतदतिरिच्य, प्रधानमन्त्री नामिबिया-देशस्य संसत्-सदने अपि सम्बोधितवान्, द्वयोः देशयोः मध्ये विद्यमानयोः सम्बन्धयोः निर्णायकं क्षणम् अभवत्। संसाधनसमृद्धे दक्षिण-अफ्रिका-देशे श्रीमोदीवर्यस्य एतत् प्रथमं भ्रमणम् अस्ति, अपि च प्रायः दशकत्रयानन्तरं भारतस्य प्रधानमन्त्रिणः तृतीयं भ्रमणम् अस्ति।
गुजरातस्य वडोदरा-जनपदे जातायां सेतुविखण्डनस्य घटनायां नवजना: मृता: बह्वश्च व्रणिताः ।
हिमसंस्कृतवार्ता: – गुजरातस्य मख्यमन्त्री भूपेंद्रपटेलः वडोदरा-जनपदे गंभीरा क्षेत्रस्य सन्निकटे सेतोर्विखण्डनस्य जातायाः घटनायाः अन्वीक्षणादेशं प्रायच्छत्। अवधेयं यत् अस्यां घटनायां नवजनाः मृता: बह्वश्च व्रणिताः । श्रीपटेलः अस्याः घटनायाः संबन्धे अधिकारिभ्यः सूचनापत्रं दातुम् अकथयत् । अस्यां घटनायां पञ्चवाहनानि महीसागर-नद्यां पतितानि येन नवजनानां मृत्युरभवत्। स्थानीयाधिकारिणः बृहद्रूपेण सहायोद्धार-अभियानं प्रारभन् ।
बिहारे मतदातासूचिभ्यः निर्वाचनायोगस्य (एसआईआर) इति विशिष्ट-गहन-संशोधनं विरुध्य राष्ट्रिय-जनता-दलस्य, कांग्रेस-दलस्य च नेतृत्वभूतेन महाग्रन्थिबंधनेन समाहूतेन राज्यव्यापि-विरोध: ।
हिमसंस्कृतवार्ता: – बिहार-राज्ये, मतदातासूचिभ्यः निर्वाचनायोगस्य (एसआईआर) इति विशिष्ट-गहन-संशोधनं विरुध्य राष्ट्रिय-जनता-दलस्य, कांग्रेस-दलस्य च नेतृत्वभूतेन महाग्रन्थिबंधनेन समाहूतेन राज्यव्यापि-विरोधेन मिश्रिता प्रतिक्रिया जनिता। पिधानेत्यस्य समर्थकाः केषुचित् स्थानेषु मार्गाणि अवरुद्धानि रेलसेवाः च तैः बाधिताः अकुर्वन् । यद्यपि सर्वकारीयाणि अन्यानि च प्रतिष्ठानानि सामान्यरूपेण कार्यं कुर्वन्ति स्म। अस्मिन् मध्ये, भाजपादलस्य वरिष्ठनेता रविशंकर प्रसादः विरोध-प्रदर्शनम अधिकृत्य विपक्षे लक्ष्यम् असाधयत् । नवदेहल्यां वार्ताहरान् संबोधयन् श्रीप्रसादः राजद-कांग्रेस-दलयोः नेतृत्वभूतस्य महाग्रन्थिबंधनस्य उपरि अस्मिन् विषये राजनीत्याः आरोपः प्रख्यापितः अस्ति ।
राजस्थानस्य चुरुमण्डलस्य समीपे भारतीयवायुसेनायाः विमानदुर्घटितम् ।
हिमसंस्कृतवार्ता: – राजस्थानस्य चुरुमण्डलस्य समीपे भारतीयवायुसेनायाः विमानं दुरापन्नम् अवाप्नोत् । राजल-देसर-आरक्षिस्थानक्षेत्रे एषा घटना घटिता । चुरु-आरक्षी-अधीक्षकः जय यादवः अवदत् यत् स्थलात् दग्धशव-द्वयं प्राप्तम् अस्ति। सः अवदत् यत् नागरिकाणां क्षतेः सूचना नास्ति।
प्रवर्तननिदेशालयेन अमृतसर-सङ्गरुर-पटियाला-मोग्गा-अम्बाला-कुरुक्षेत्र-करनाल चेत्यादिषु एकादश-स्थानेषु अन्वेषणं कृतम् ।
हिमसंस्कृतवार्ता: – अस्मिन् वर्षे फरवरीमासे अमेरिकादेशात् निर्वासितानां अवैधप्रवासीनां प्रकरणे डंकी-रूट इति प्रकरणस्य सन्दर्भे प्रवर्तननिदेशालयेन अमृतसर-सङ्गरुर-पटियाला-मोग्गा-अम्बाला-कुरुक्षेत्र-करनाल चेत्यादिषु एकादश-स्थानेषु अन्वेषणं कृतम् अस्ति। अमेरिकादेशं प्रति गन्तुं इच्छुकानाम् विभिन्नानां जनानां ये वञ्चनं कृतवन्तः यात्रा-वीजा मध्यस्थताकर्तृणः विरुद्धं पञ्जाब-हरियाणा-राज्ययोः आरक्षिबलैः अस्मिन् प्रकरणे अन्वेषणम् समारब्धम्।
देहल्यां निवसन्तः सप्तबाङ्गलादेशीयाः नागरिकाः पुलिसदलेन निगृहीताः
हिमसंस्कृतवार्ताः। राजधानी दिल्लीनगरे अवैधरूपेण निवसन्तः सप्त बाङ्गलादेशीयाः नागरिकाः मुकुन्दपुरस्य उड्डयनमार्गस्य समीपे दिल्लीपुलिसदलेन गृहीताः। एतेषु पञ्च नपुंसकाः, द्वौ पुरुषौ च सन्ति । एते बाङ्गलादेशीयाः नागरिकाः दीर्घकालं यावत् दिल्लीनगरे निवसन्ति स्म, रात्रौ अपराधिकं कार्यं कुर्वन्ति स्म इति पुलिसदलेनोक्तम्। गृहीतजनानाम् निर्वासनार्थं विदेशपञ्जीकरणकार्यालये पुलिसेन समर्पिताः।