देवेन्द्रशर्मा सिरमौरजनपद: संस्कृतशिक्षकपरिषदः अध्यक्षः, गोविन्दशर्मा महासचिवः, अतुलकुमारः वित्तसचिवः च चयनित: ।
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ,नाहनम् ।
हिमाचल-राजकीय-संस्कृतशिक्षक-परिषदः त्रिवार्षिकनिर्वाचनप्रक्रियायां सिरमौरमण्डलस्य निर्वाचनं रविवासरे, २९ जूनदिनाङ्के सर्वसम्मत्या राजकीय-उच्च-विद्यालय-कैन्ट्-नाहनम् इत्यत्र सम्पन्नम् । यस्मिन् डॉ. योगेशशास्त्री निर्वाचनपदाधिकारीरूपेण, सुशीलकुमारः च पर्यवेक्षकरूपेण उपस्थितः आसीत्। पूर्वकार्यकारिणी स्वस्य प्रतिवेदनं प्रस्तुतम्, तदनन्तरं च पूर्वाध्यक्षेण वेदप्रकाश-पराशरेण कार्यकारिणीं विघट्य निर्वाचनपदाधिकारिणं निर्वाचनप्रक्रियायाः अनुरोधं कृतम्। निर्वाचनाधिकारी डॉ. योगेश अत्रीवर्येण संवैधानिक-प्रक्रियाया: अनुसरणं कृत्वा निर्वाचन-प्रक्रिया सम्पन्नम् । यस्यां देवेन्द्र शर्मा सिरमौरजनपद: संस्कृतशिक्षकपरिषदः अध्यक्षः, गोविन्दशर्मा महासचिवः, अतुलकुमारः वित्तसचिवः च चयनित: । नवनिर्वाचितः अध्यक्षः महासचिवः वित्तसचिवः च सिरमौरमण्डलस्य सर्वेषां संस्कृतशिक्षकाणां धन्यवादं कृतवन्त:। एतेन सह संस्कृतशिक्षकाणां संस्कृतिसम्बद्धविषयान् अग्रे नेतुम् एकीकृत्य अग्रे गन्तुं संकल्पश्च कृतवन्त: ।
देवेन्द्रशर्मा सिरमौरजनपद: संस्कृतशिक्षकपरिषदः अध्यक्षः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
