डॉ प्रेमप्रकाशः संस्कृतशिक्षकपरिषद् जिला शिमलायाः अध्यक्षः,
आचार्य सतीशः महासचिवः, अजयः वित्तसचिवः, संदीपपाण्डे संगठनमंत्री, डॉ ओमप्रकाशः वरिष्ठ उपाध्यक्षः
हिमाचलराजकीयसंस्कृतशिक्षकपरिषद् जिला शिमला 2025-28 तमवर्षस्य त्रिवार्षिक निर्वाचनप्रक्रिया निर्वाचनाधिकारिणः कमलकांतगौतमस्य पर्यवेक्षकस्य आचार्यललितशर्मणश्च मार्गदर्शने राजकीकवरिष्ठमाध्यमिकविद्यालयः मशोबरा इत्यत्र सम्पन्नम्। प्रतिकूलवातावरणकारणात् केषाञ्चन खण्डानां प्रतिनिधिभिः ऑनलाइन-रूपेण प्रतिभागिता कृता । सूचनां दत्त्वा निर्वाचनाधिकारी कमलकान्त गौतमः उक्तवान् यत् अस्मिन् निर्वाचनप्रक्रियायां जिला शिमलातः प्रतिनिधिभिः सदस्यैः च उत्साहेन सहभागिता कृता। अस्याः निर्वाचनप्रक्रियायाः आरम्भे पूर्वकार्यकारी गतत्रयवर्षस्य विवरणं प्रस्तुतम्। विगतत्रयवर्षेषु सहकार्यं कृत्वा सम्पूर्णमण्डलस्य संस्कृतशिक्षकाणां प्रति कृतज्ञतां प्रकटिता। तदनन्तरं निर्वाचनप्रक्रियायां सर्वैः सर्वसम्मत्या राजकीय माध्यमिकविद्यालय बस्तीगुनाणा इत्यस्य डॉ प्रेमप्रकाशः अध्यक्षपदार्थं समर्थनं कृतम्। कोटखाई क्षेत्रस्य शासकीयवरिष्ठमाध्यमिकविद्यालयः बाघनस्य आचार्यः सतीशः महासचिवः देहा प्रखंडस्य शासकीयोच्च विद्यालयः क्यारस्य अजयः वित्तसचिवः निर्वाचितः। ठियोग खण्डतः संदीपपाण्डेयः सर्वसम्मत्या संगठनमन्त्री तथा देहातः डॉ. ओमप्रकाश शर्मा वरिष्ठ उपाध्यक्षत्वेन निर्वाचितः। नवनिर्वाचिता कार्यकारिणी संस्कृतशिक्षकाणां छात्राणां च हिताय कार्यं कर्तुं निश्चयं कृतवान् ।
डॉ प्रेमप्रकाशः संस्कृतशिक्षकपरिषद् जिला शिमलायाः अध्यक्षः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
