सर्वोच्चन्यायालयः – केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन अनुमोदितं चलच्चित्रं प्रदर्शितं भवेत्
सर्वोच्चन्यायालयेन गतदिने उक्तं यत् प्रत्येकस्मिन् राज्ये केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन अनुमोदितं चलच्चित्रं प्रदर्शितं भवेत्। कर्नाटकप्रदेशे तमिलचलच्चित्रस्य ठग् लाइफ् इत्यस्य प्रतिबन्धस्य विषये असहमतिं प्रकटयन् सर्वोच्चन्यायालयेन उक्तं यत् जनाः विरोधं कर्तुम् अधिनियमं हस्ते न गृह्णीयुः इति। न्यायाधीशौ उज्जलभुयान-मनमोहनयोः पीठिका उक्तवती यत् अधिनियमराज्यस्य आग्रहः अस्ति यत् केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन प्रमाणितं यत्किमपि चलच्चित्रं प्रदर्शितं भवेत्, राज्येन तस्य प्रदर्शनं सुनिश्चितं कर्तव्यम्। महेश रेड्डी इत्यनेन स्थापितायाः पी.आइ.एल. कर्णाटकसर्वकारेण बुधवासरपर्यन्तं प्रतिशपथपत्रं दातुं खण्डपीठेन गुरुवासरे अग्रे श्रवणायै विषयः स्थापितः।
सर्वोच्चन्यायालयः – केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन अनुमोदितं चलच्चित्रं प्रदर्शितं भवेत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
