असहायसेवासमित्याः कपाही विद्यालये वितरितानि पुस्तकानि, धनऱाशिसहयोगश्च
हिमसंस्कृतवार्ताः सुन्दरनगरम्। शिक्षा न केवलं सर्वकारस्य दायित्वम् अपितु सामाजिकानां सहभागितायाः उत्तरदायित्वमप्यस्ति। अस्यैव उदाहरणं सुन्दरनगरस्य असहाय सेवा समिति द्वारा प्रस्तुतम्। वस्तुतः सुन्दरनगरस्य असहाय सेवा समितेः शिक्षा क्षेत्रे उपसमितिः गठिता अस्ति, यस्य प्रभारी हिमाचलसंस्कृत-अकादम्याः पूर्वसचिवः डॉ.केशवानन्दकौशलः वर्तते यः संस्कृतक्षेत्रे महानपण्डितः संस्कृतमहाविद्यालयात् सेवानिवृत्तः पूर्वप्राचार्यः अस्ति। डॉ.केशवानन्दकौशलस्य नेतृत्वे राजकीयवरिष्ठमाध्यमिकविद्यालयः कपाही इत्यत्र चयनितेभ्यः छात्रेभ्यः पुस्तकानि प्रदत्तानि किञ्च छात्रेभ्यः आवर्षं यावत् परीक्षाशुल्कस्य विद्यालयस्य शुल्कस्य राशिः अपि बैंकचैकद्वारा प्रदत्ता। अस्मिन्नावसरे उपसमितेः उपाध्यक्षः अभियन्ता के .एस जम्वालः,, महासचिवः अभियन्ता जे.पी.गुप्ता, कोषाध्यक्षः मस्तरामवर्मा, पूर्वप्रभारी यादविन्दरशर्मा, देवेन्द्रकुमारः च उपस्थिताः आसन्।
असहायसेवासमित्याः कपाही विद्यालये वितरितानि पुस्तकानि, धनऱाशिसहयोगश्च

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment