राष्ट्रीयवार्ताः- अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः अस्ति
हिमसंस्कृतवार्ता: – अरुणाचलप्रदेशस्य अन्तः स्थलेभ्यः नूतनानि नामानि निर्दिष्टुं चीनदेशस्य निरन्तरम्, निराधारम्, असंगतञ्च प्रयत्नम् भारतदेशः स्पष्टतया निराकृतवान्। प्रसारमाध्यमेषु समागतप्रश्नानामुपरि प्रतिक्रियारूपेण, विदेशमन्त्रालयस्य प्रवक्ता रणधीर जैस्वाल: उक्तवान् यत् एतादृशाः क्रियाः पूर्णतया अस्वीकार्याः सन्ति, तथा च भारतीय-सुसंगतसिद्धान्तानुगुणञ्च साक्षात् विरुद्धमस्ति। अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः आसीत्, अस्ति, सर्वदा च भविष्यतीति स्पष्टं निर्विवादञ्चास्ति, यथार्थ परिवर्तयितुं तस्य पुनः नामकरणं न शक्यते इति सः सबलं प्रतिपादितवान्।
सैन्यत्रयप्रमुखैः राष्ट्रपतिना द्रौपदी मुर्मु इत्यनया सह मिलित्वा आपरेशन् सिन्दूर् इति विषय: ज्ञापितः
हिमसंस्कृतवार्ता: – सैन्यत्रयप्रमुखः, जनरल अनिल चौहानः सेनाध्यक्षः, जनरल् उपेन्द्र द्विवेदी, वायुसेनाप्रमुखः, ए. पी. सिङ्ङ्घः नौसेनाध्यक्षश्च एड्मिरल् दिनेश के. त्रिपाठी च राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मिलित्वा आपरेशन् सिन्दूर इति विषयं ज्ञापितवन्तः। एकस्मिन् सामाजिक-जालपुटप्रकाशने राष्ट्रपतिः सशस्त्रबलानां साहसस्य समर्पणस्य च प्रशंसाम् अकरोत्, आतंकवादं विरुध्य भारतस्य प्रतिक्रिया उल्लेखनीयास्तीति च उक्तवती ।
भारतस्य आपरेशन् सिन्दूराभियानम् अन्ताराष्ट्रिय-विशेषज्ञैः निर्णायक-सैन्य-विजयत्वेन प्रशंसितम्
हिमसंस्कृतवार्ता: – भारतस्य आपरेशन् सिन्दूर इत्यभियानम् रक्षाक्षेत्रीयैः अन्ताराष्ट्रिय-विशेषज्ञैः निर्णायक-सैन्य-विजयत्वेन प्रशंसितमस्ति, यस्मिन् प्रमुखः अमेरिकीय-सैन्य-वयोवृद्धः, जॉन् स्पेन्सरः अपि अस्ति। अप्रैलमासस्य द्वाविंशे दिनाङ्के पहलगाम्- इति क्षेत्रे कृत-क्रूराक्रमणस्य उल्लेखं कुर्वन् स्पेन्सरः अभियानमिमं द्रुतं सुनिर्दिष्टञ्चेति उक्तवान् । सः परमाणोः मृथाभयं विरुध्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृढां स्थितिं प्राशंसयत्, यत्र उक्तमासीत् यत् भारतदेशः आपदाम् न सहति तथा च सुनिर्दिष्टतया दृढनिश्चयेन च प्रतिक्रियां करोतीति सन्देशमपि सः आरेखितवान्। सः अवदत् यत् “भारतदेशः प्रतिकारार्थं युद्धं न कुर्वदासीत्” । सः प्रतिरोधाय युद्धं कुर्वन् आसीत्। सः एतदपि अवदत् यत् भारतस्य संयमः दुर्बलता न, अपितु परिपक्वता अस्ति। आस्ट्रिया-देशस्य विमानयानविश्लेषकः लेखकः च टाम् कूपर् इत्येषः अपि भारतस्य प्रतिक्रियां “क्लियर्कट्विक्ट्रीति” इत्युक्ते स्पष्टविजयमिति वर्णितवान्। एकस्मिन् सामाजिक-जालपुटे श्रीकूपर् इत्ययम् अवोचत् यत् पाकिस्तानस्य युद्धविरामं प्रति अग्रे गमनस्य निर्णयः भारतस्य श्रेष्ठ-सैन्य-प्रतिक्रियायाः प्रत्यक्षः परिणामः आसीत् ।
उत्तरप्रदेशस्य जेवरविमानस्थानं निकषा एकस्य सेमीकंडक्टर इति अर्धचालकेत्यस्य उद्योगस्य संस्थापनाय सर्वकारस्य अनुमोदनम्
हिमसंस्कृतवार्ता: – उत्तरप्रदेशस्य जेवरविमानस्थानं निकषा एकस्य सेमीकंडक्टर इति अर्धचालकेत्यस्य उद्योगस्य संस्थापनाय अनुमोदनं केन्द्र-सर्वकारेण कृतम् अस्ति । सामाजिकान्तर्जालीय-पटले सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अवदत् यत् अस्य एकस्य प्रवर्गस्य संस्थापनं एचसीएल-फॉक्सकॉन्- इत्येतयोः संयुक्तोद्यमेन सह इण्डिया सेमीकण्डक्टर् मिशनेत्यस्यान्तर्गतं भवति । सः अवदत् यत्, अस्य संयन्त्रस्य निर्माणं प्रतिमासं विंशति-सहस्रं यावत् वेफर्स इत्यस्योत्पादनाय अस्ति, निर्माणोत्पादनक्षमता च प्रतिमासं षड्त्रिंशत् मिलियन यूनिट् इति अस्ति। सः अवदत् यत् जेवर इत्यत्र नूतनं अर्धचालक-सन्यन्त्रं सप्तशताधिक-त्रिसहस्र-कोटिरूप्यकाणां निवेशं आकर्षयिष्यति। श्रीवैष्णवः अवदत् यत्, पञ्च अर्धचालक-सन्यन्त्राणि पूर्वमेव निर्माणस्य उन्नते स्तरे सन्ति तथा च एतैः षट्-सन्यन्त्रैः सह भारतं सामरिकदृष्ट्या महत्त्वपूर्णस्य अर्धचालक-उद्योगस्य विकासाय स्वयात्रायाम् अग्रे गच्छति। सः अवदत् यत्, सप्तत्यधिक- द्विशत-शैक्षणिकसंस्थासु सप्तति: नवोद्योगेषु च छात्राः उद्यमिनः च नूतनानाम् उत्पादानाम् विकासाय विश्वस्तरीय नवीनतम-विनिर्माण-प्रौद्योगिकीषु कार्यं कुर्वन्ति।
न्यायाधीशः भूषणरामकृष्णगवयिः भारतस्य सर्वोच्चन्यायालयस्य द्विपञ्चाशत्तम-मुख्यन्यायाधीशत्वेन शपथवचनं स्वीकृतवान्
हिमसंस्कृतवार्ता: – न्यायाधीशः भूषणरामकृष्ण गवयिः भारतस्य सर्वोच्चन्यायालयस्य द्विपञ्चाशत्तम-मुख्यन्यायाधीशत्वेन राष्ट्रपतिभवने समायोजिते विशेषसमारोहे शपथवचनं स्वीकृतवान्, राष्ट्रपतिना द्रौपदीमुर्मू वर्यया च शपथवचनं ग्राहितम्। न्यायाधीशः बी. आर्. गवयिः पूर्वमुख्यन्यायाधिशस्य सञ्जीव खन्ना इत्यस्य उत्तराधिकारी अभवत्, येन मुख्यन्यायाधीश कार्यालयः त्यक्तः। समारोहेस्मिन् उपराष्ट्रपतिः जगदीपधनखड, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रस्य अनेके मन्त्रिणः, सर्वोच्चन्यायालयस्य न्यायाधीशाः च भागम् अगृह्णन्।
पञ्जाब/बी.एस्.एफ. सैनिकस्य पुनरागमनम्
हिमसंस्कृतवार्ता: – सीमा-सुरक्षा-बलस्य एकः सैनिकः पूर्णम् कुमार शॉ, पञ्जाब्-राज्यस्य फ़िरोज़पुर्-क्षेत्रे अनवधानेन अन्ताराष्ट्रियसीमा-पारं कृत्वा अप्रैलमासस्य त्रयोविंशतितमे दिनाङ्के पाकिस्तानी-रेन्जर्स द्वारा निगडितः आसीत्, सः गतदिने प्रातः भारतं प्रत्यागतवान्।
डॉ. अजय कुमारः संघलोकसेवायोगस्य नूतन: अध्यक्षः: नियोजितः
हिमसंस्कृतवार्ता: – राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया डॉ. अजय कुमारं सङ्घलोक सेवायोगस्य अध्यक्षः नियोजितः। कार्मिकप्रशिक्षणविभागात् निर्गतादेशानुसारं डॉ. कुमारस्य कार्यकालः तस्मिन्नेव दिने आरप्स्यते यस्मिन् दिने सः आयोगाध्यक्षरूपेण प्रभारं स्वीकरिष्यति। डॉ. कुमारः पञ्चाशीत्यधिकैकोनविंशतितमवर्ष-वर्गस्य केरलसंवर्गस्य सेवानिवृत्तः भारतीयप्रशासनिकसेवापदाधिकारी अस्ति। सः पूर्व ऊनविंशत्यधिक द्विसहस्रतम वर्षस्य अगस्तमासात् द्वाविंशत्यधिक द्विसहस्रतम वर्षस्य अक्टोबर्-मासपर्यन्तं रक्षासचिवरूपेणापि कार्यं कृतवान् ।