By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: IPL 2025 – पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावः न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > क्रीडावार्ताः > IPL 2025 – पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावः न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगताः
क्रीडावार्ताःहिमाचलवार्ता

IPL 2025 – पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावः न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगताः

डॉ मनोज शैल
Last updated: 2025/05/08 at 11:05 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

IPL 2025 – पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावः न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगताः

हिमसंस्कृतवार्ता: – धर्मशाला।

पाकिस्तानेन सह प्रचलत: द्वन्द्वस्य मध्ये गुरुवासरे धर्मशालायां आईपीएल-क्रीडायाः उन्मादः न्यूनः न अभवत्। पञ्जाब- दिल्ली- दलयोः प्रतिस्पर्धार्थं पञ्जाब- हरियाणा- चण्डीगढ- जम्मूकश्मीरसहितानाम् अन्यराज्यानां प्रेक्षकाः धर्मशालानगरं प्राप्तवन्तः। समीपस्थदेशेन सह विवादं विमानप्रहारं च दृष्ट्वा हिमाचलपुलिससहिताः केन्द्रीयराज्यसुरक्षासंस्थाः सजगाः एव आसन्। सुरक्षादृष्ट्या शङ्कितानां कार्याणां निरीक्षणं कृतम्। तथैव क्रीडाङ्गणे अपि द्विस्तरीय- परीक्षणव्यवस्थायाः अनन्तरमेव प्रेक्षकेभ्य: प्रवेशः दत्तः। अस्मिन् प्रवेशद्वारस्य प्रथमबिन्दौ पुलिसकर्मचारिभिः प्रेक्षकाणां निरीक्षणं कृतं, द्वितीयबिन्दौ तु धातुविज्ञापकयन्त्रेण परीक्षितानां प्रेक्षकाणां प्रवेशः अनुमतः आसीत्।

क्रीडाया: आरम्भात् पूर्वं एनडीआरएफ- एसडीआरएफ इत्येतयो: अभ्यासः

धर्मशाला क्रिकेट-क्रीडाङ्गणे क्रीडायाः आरम्भात् पूर्वं आपत्काले आश्रय- उद्धार- व्यवस्थायाः निरीक्षणार्थम् अनुकृत-अभ्यासः अपि कृतः। अस्मिन् काले एनडीआरएफ, एसडीआरएफ इत्येतयोः दलयो: क्रीडाङ्गणे पूर्वाभ्यासः अभवत्। वर्तमानस्थितिं मनसि कृत्वा जिलाप्रशासनेन सर्वेषु पक्षेषु निकटतया निरीक्षणं कृतम्, हिमाचलपुलिसारक्षकानाम् अतिरिक्तं क्रीडाङ्गणे कमाण्डोः अपि नियोजिताः आसन्। तस्मिन् एव काले डीआइजी नॉर्थ रेन्ज अभिषेक दुल्लर: इत्यादयः पुलिस-अधिकारिणः अपि सम्पूर्णे क्रीडाङ्गणे सुरक्षा-स्थानानां निरीक्षणं कुर्वन्तः आसन्।

भ्रात:! पुनः पाकिस्तानस्य उपरि आक्रमणं कृतम्

भारतेन पाकिस्तानविरुद्धं क्रियमाणा कार्यविधि: गुरुवासरे पञ्जाब-दिल्ली-दलयोः मध्ये आईपीएलक्रीडां द्रष्टुं आगतानां प्रेक्षकाणां मध्ये अपि चर्चा अभवत्। पञ्जाबतः प्रेक्षकाः ये प्रतिस्पर्धां द्रष्टुम् आगताः आसन् ते चर्चां कुर्वन्ति स्म यत् नायकाः पुनः पाकिस्तानस्य उपरि आक्रमणं करिष्यन्ति, अधुना रावलपिण्डी-क्रीडाङ्गणे विस्फोटका: क्षिप्यन्ते। भारतेन क्रियमाणानां आक्रमणानां प्रतिक्रियां दातुं पाकिस्तानमपि प्रयतते इति अपि प्रेक्षकाणां मध्ये चर्चा अभवत्। सः अवदत् यत् पाकिस्तानं भारतस्य पुरतः किमपि नास्ति, अस्माकं भारतीयसेना तस्य योग्यम् उत्तरं कथं दातव्यम् इति सम्यक् जानाति। अपि च भारतेन पाकिस्तानविरुद्धं क्रियमाणायाः कार्यविधिविषये दर्शकाः निमेष- निमेष- सूचनाः प्राप्नुवन्ति स्म।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: CRICKET, cricket News, HPCA Cricket Stadium, International cricket match, IPL Match, IPL2025-, अन्तर्राष्ट्रीय क्रिकेट मैच, आई पी एल धर्मशाला, क्रिकेट मैच, क्रिकेट समाचार, धर्मशाला
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विद्यालयप्रार्थनासभायां वाचनार्थम् 09/05/2025 दिनाङ्कस्य पञ्चप्रमुखवार्ता:।
Next Article CSK HPKV PALAMPUR – हिमाचलप्रदेशे: कृषिविश्वविद्यालयस्य सप्तवर्षीयानुसन्धानं सफलं, ब्लूबेरी फलं सिद्धं, यः कर्करोगनिवारणाय स्मृतिवृद्धये च साहायकः।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?