मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अकथयत् यत् भारतं चलच्चित्र-निर्माणस्य, डिजिटल सामग्र्याः, गेमिंग-फैशिन इत्यनयोः, संगीतस्य, सजीवप्रसारणस्य च क्षेत्रे वैश्चिककेन्द्रस्य रूपेण विकसति । ध्यानास्पदं वर्तते यत् मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन सेंटर इत्यत्र वेव्स् इति प्रथमं वैश्विक मनोरञ्जन-सम्मेलनं समुद्घाट्य प्रधानमन्त्रिणा मोदिना एतत् प्रोदीरितम् । तेन प्रोक्तं यत् वेव्स् इति शब्देन संस्कृति-रचनात्मकता सार्वभौमिक संपर्काणां तरङ्गः द्योतते । सः प्रोक्तवान् यत् अनेन वैश्चिक मंचेन कलाकाराणां रचनाकाराणां च विचाराः वृद्धिमधिगमिष्यन्ते। प्रधानमंत्री पुनः अकथयत् यत् वेव्स् वैश्चिक ध्यानं समाकर्षयति यतोऽहि शताधिकानां देशानां कलाकाराः, नवोन्मेषकाः, निवेशकाः, नीतिनिर्मातारश्च अस्मिन् सम्मेलने एकत्रीभूताः सन्ति । वेव्स् इत्यस्य प्रंशसा कुर्वता प्रधानमन्त्रिणा प्रोक्तं यत् अनेन नवोन्मेषकाः रचनाकाराः च प्रोत्साहिताः भविष्यन्ति । प्रधानमंत्री अकथयत् यत् वेव्स-शिखर सम्मेलनं वैश्चिक मञ्चे भारतस्य रचनात्मक शक्तीनां प्रदर्शनं करोति । तेन प्रतिपादितं यत् वर्तमानसमये, एनीमेशन इत्यस्य वैश्चिकापण-मूल्यं त्रिंशदधिक-चतुश्शतं बिलियन डॉलर-मिततोऽपि अधिकम् अस्ति, अपि च आगामि-दशके अस्य द्विगुणीभूतस्य अनुमानम् अस्ति। सः प्रोक्तवान् यत् अनेन भारतस्य एनीमेशन-ग्राफिक डिज़ाइन इत्यनयोः उद्योगाय एकः महत्वपूर्णः अवसरः प्रदास्यते । श्रीमोदी अकथयत् यत् देशः तृतीया बृहत्तमार्थव्यवस्था भवितुं सकारात्मकदिशि प्रयासं करोति, अपि च अस्य पार्श्वे विश्वस्य तृतीयं बृहत्तमं स्टार्टअप इति पारिस्थितिकतंत्रम् अस्ति । सः प्रोक्तवान् यत् विकसित-भारतं प्रति भारतस्य यात्रा अधुनैव समारब्धा अस्ति सहेव अर्बुदतोऽप्यधिकायाः जनसंख्यायाः देशः भारतम्, अर्बुदतोऽप्यधिकानां कथानां देशः अपि अस्ति। अस्मिन् अवसरे महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीसः प्रख्यापितवान् यत् भारतं सञ्चारमाध्यमक्षेत्रे मनोरञ्जनक्षेत्रे च विश्वस्य नेतृत्वं विधातुं सज्जमस्ति। तेनोदीरितं यत् मनोरञ्जनार्थव्यवस्था भारतमहाराष्ट्रयोः कृते नूतनविकासस्य आधारभूतास्ति।
मुम्बय्यां जियो-वर्ल्ड-कन्वेंशन-सेंटर इत्यत्र वेव्स् इति प्रथम-वैश्चिक-मनोरञ्जन-सम्मेलनस्य उद्घाटनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
