By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः
राष्ट्रीयवार्ताःप्रादेशिकवार्ता

जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः

डॉ.अमनदीप शर्मा
Last updated: 2025/04/20 at 10:53 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः। प्राप्तवार्तानुसारं रामबन-क्षेत्रे शनिवाररात्रौ तीव्र-हिमपातः, बहुविधं भूस्खलनं, तीव्र-वायुः प्रवाहः च अभवन् । रविवासरे प्रातःकाले मण्डलस्य धरमकुण्डग्रामे प्रचण्डवृष्ट्या जलप्लावेन प्रायः शताधिकाः जनाः उद्घारिताः। क्षेत्रे प्रतिकूल-ऋतोः कारणेन ग्रामे चत्वारिंशत् आवासगृहाणि क्षतिग्रस्तानि अभवन् । उपायुक्तेन बसीर-उल-हक चौधरी इत्यनेन उक्तं यत् नदीनां जलस्रोतानाम् अतिप्रवाहस्य कारणेन जलाप्लवेन अनेकानि वाहनानि प्रवहितानि। रामबनमण्डल-प्रशासनेन जिला-नियन्त्रण-कक्षस्य आपाकालीना दूरभाषसंख्यापि प्रसारिता संख्या अस्ति – शून्यम्, एकम्, नव, नव, अष्ट द्वे, नव, पञ्च, पञ्च, शून्यम्, शून्यम् अपरः च शून्यम्, एकं, नव, नव, अष्ट- द्वे, षड्, षड्, सप्त, नव, शून्यम् इति । तत्रैव केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्ला च अस्यां घटनायां प्राणहानिविषये दुःखं प्रकटितवन्तौ। केन्द्रीयमन्त्री सामाजिकान्तर्जालीये संदेशे अवदत्, सः मण्डलस्य उपायुक्तेन सह नित्यं सम्पर्के अस्ति। सः अवदत् यत् आर्थिकादिकं सर्वविधं सहायताः प्रदत्ताः भविष्यन्ति। जम्मू-कश्मीरस्य मुख्यमन्त्री घटनास्थले गत्वा जीर्णोद्धारस्य, उद्धारस्य, च कार्याणां समीक्षां कृतवान् ।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

TAGGED: जम्मू समाचार, रामबन में बादल फटा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article Himachal Pride : भारतमण्डपे ज्योतिषक्षेत्रे योगदानाय पिता पुत्रीं च सम्मानं प्राप्तवन्तौ
Next Article शिवराजसिंहचौहान-ब्राजीलयात्रायाः कारणेन द्वयोः देशयोः कृषिक्षेत्रे सहकार्यस्य सशक्तः आरम्भः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?