HP Police Constable Recruitment : प्रथमे दिन १२९ महिला: शारीरिकदक्षता परीक्षा: उत्तीर्णा:
हिमसंस्कृतवार्ता: – शिमला।
जिलाशिमलायां पुलिसारक्षकाणां (पुरुष एवं महिला) चयनप्रक्रियाया: प्रथमदिने शारीरिक-मानक एवं शारीरिकदक्षता- परीक्षणे ४०३ महिलाभ्यर्थिन्य: भागं गृहीतवत्य:न । तासु १२९ अभ्यर्थिन्य: परीक्षायां उत्तीर्णाः अभवन् । महिला अभ्यर्थिन्य: पुलिस-सङ्गठने एतावन्तः उत्साहिताः आसन् यत् ते प्रातः ५ वादने प्राङ्गणस्य बहिः प्राप्तवत्य: । अभिलेखानां सत्यापनानन्तरं भौतिकमानकदक्षतापरीक्षा कृता। एप्रिलमासस्य प्रथमदिनात् ११ दिनाङ्कपर्यन्तं पुलिसनियुक्तिः भविष्यति।
महिला अभ्यर्थीनां कृते अनुक्रमांक-सङ्ख्यायाः आधारेण अप्रैल-मासस्य ४ दिनाङ्कपर्यन्तं तिथिः प्रकाशिता अस्ति । तदनन्तरं ५ अप्रैलतः पुरुषाभ्यर्थीनां नियुक्तिः आरभ्यते।तत्सह परीक्षायां उपस्थितानां अभ्यर्थीनां कृते चयनसमित्या अवकाशदिने वा अन्यदिनेषु वा तिथिपत्रं दर्शयित्वा प्रक्रियायां भागं ग्रहीतुं अपकर्ष: प्रदत्त: अस्ति। जिलापुलिसस्य मते आवश्यकतानुसारं कस्यापि अभ्यर्थिनः डोपपरीक्षा अपि कर्तुं शक्यते। शिमलामण्डलात् १२,७९३ अभ्यर्थिनः आरक्षकनियुक्त्यर्थं आवेदनं कृतवन्तः।
पुरुष-अभ्यर्थीनां परीक्षा 5 अप्रैलतः आरभ्यते
पुरुष-अभ्यर्थीनां नूतनपरीक्षा समयसूची 5 अप्रैलतः आरभ्यते । एषा प्रक्रिया ११ अप्रैल दिनांकपर्यन्तं प्रचलिष्यति।