डॉ. स्वानंद-गजानन -पुंड: श्रीमंत नानासाहेब पेशवे पुरस्कारेण सन्मानित:
वार्ताहर: – जगदीश डाभी (मुम्बई)
वणीनगरस्थ लोकमान्य टिळक महाविद्यालयस्य संस्कृत- विभागप्रमुख: तथा संत गाडगेबाबा अमरावती विद्यापीठस्य संस्कृत अभ्यासक्रमंडलस्य कार्यकारी- अध्यक्ष: विद्यावाचस्पति: प्रा. स्वानंद गजानन पुंड महोदय: पुण्यपतनस्थित देवदेवेश्वर संस्थानद्वारा श्रीमंत नानासाहेब पेशवे धार्मिक अध्यात्मिक सामाजिक पुरस्कारेण सन्मानित: |
तेषां गाणपत्य-संप्रदायविषयकं संशोधन, लेखनकार्यं तथाच संस्कृतभाषाया:प्रचार प्रसारार्थे डॉ. कल्याणी नामजोशी महोदयाया: करकमलद्वारा स: एष: वैशिष्ट्यपूर्ण: सन्मान: प्राप्तवन्त: |
अस्मिनेव कार्यक्रमे वासुदेवाश्रमस्य भागवताचार्य: शरद जोशी महोदय: अपि अनेन सन्मानेन गौरवान्वित: |
कार्यक्रमस्य प्रास्ताविकं संस्थाया: प्रधानविश्वस्त: रमेश भागवत महोदय: कृतवान् | सूत्रसंचालनं अदिती अत्रे महोदया कृतवती तथा ऋणनिर्देशं सुधीर पंडित महोदय: कृतवान् |