By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News : हिमाचलस्य प्रमुखा वार्ता: – एचएमपीवी-विषाणो: विषये हिमाचलप्रदेशे सचेतना, एतेषां जनानां उपरि दृष्टिः स्थापयितुं निर्देशाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News : हिमाचलस्य प्रमुखा वार्ता: – एचएमपीवी-विषाणो: विषये हिमाचलप्रदेशे सचेतना, एतेषां जनानां उपरि दृष्टिः स्थापयितुं निर्देशाः
हिमाचलवार्ता

Himachal News : हिमाचलस्य प्रमुखा वार्ता: – एचएमपीवी-विषाणो: विषये हिमाचलप्रदेशे सचेतना, एतेषां जनानां उपरि दृष्टिः स्थापयितुं निर्देशाः

डॉ मनोज शैल
Last updated: 2025/01/07 at 8:22 AM
डॉ मनोज शैल
Share
5 Min Read
SHARE

Himachal News : हिमाचलस्य प्रमुखा वार्ता:

HPCM: पर्यटनमूलसंरचनानां निर्माणे, सुदृढीकरणे च २४१५ कोटिरूप्यकाणां व्ययः भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला।‌

पर्यटनविभागस्य विविधपरियोजनानां समीक्षां कुर्वन् मुख्यमन्त्री सुखविन्द्रसुक्खुः पर्यटनक्षेत्रं हिमाचलप्रदेशस्य अर्थव्यवस्थायाः मुख्यस्तम्भः इति अवदत्। राज्यसर्वकारः निर्धारितसमये विविधा: पर्यटनपरियोजना: सम्पन्नं कर्तुं प्राथमिकताम् अददत् येन पर्यटकानां कृते विश्वस्तरीयसुविधाः प्रदातुं शक्यन्ते। सः अवदत् यत् राज्यस्य पर्यटनक्षेत्रे आधारभूतसंरचनानिर्माणे, सुदृढीकरणे च आगामिसमये राज्यसर्वकारः २४१५ कोटिरूप्यकाणि व्यययिष्यति।

मुख्यमन्त्री उक्तवान् यत् मण्डी-मण्डले निर्माणाधीनस्य शिवधामस्य निर्माणे १५०.२७ कोटिरूप्यकाणि, हमीरपुर-मण्डले बाबा बालकनाथमन्दिरस्य सौन्दर्यीकरणाय ५१.७० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। तथैव काङ्गड़ामण्डलस्य नगरोटाबागवांक्षेत्रस्य पालमपुरनगरस्य च सौन्दर्यीकरणं ७८.०९ कोटिरूप्यकाणां व्ययेन भविष्यति। राज्यसर्वकारः हमीरपुरमण्डलस्य नादौनम्, काङ्गरामण्डलस्य नगरोटाबगवां, कुल्लूमण्डलस्य मनाली, कुल्लू च इत्यत्र २८०.३९ कोटिरूप्यकाणां व्ययेन कल्याणकेन्द्राणि विकसितं करिष्यति। कुल्लुमण्डलस्य नग्गरदुर्गस्य संरक्षणपुनर्स्थापनकार्य्ये ८.६४ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः साहसिकपर्यटनस्य अपि प्रचारं कुर्वन् अस्ति। अस्मिन् विषये नादौननगरे राफ्टिंग-सङ्कुलस्य निर्माणं भविष्यति, मनाली- धर्मशाला- शिमलानगरेषु च रोलर- स्केटिङ्ग- रिङ्कनिर्माणं भविष्यति। अस्य कृते १६३.५० कोटिरूप्यकाणां व्ययः भविष्यति येन पर्यटकसहितस्थानीयजनानां लाभः भविष्यति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः राज्ये उत्तमविमानसेवाः सुनिश्चित्य हेलीपोर्ट-इत्यस्य निर्माणं कुर्वन् अस्ति। एतासु परियोजनासु कार्यं शीघ्रं कर्तुं सः अधिकारिभ्यः निर्देशं दत्तवान्। सः पर्यटनविभागाय निर्देशं दत्तवान् यत् डीजीसीए संजौल्यां, जिलाशिमलायां रामपुरे, जिलामण्ड्यां काङ्गणीधारे, जिलासोलनस्य च बद्दी इत्यत्र हेलीपोर्टं इत्येतै: सहितं विद्यमानानाम् अन्येषां हेलीपोर्टानां परिचालनानुमोदनं प्राप्नुयात्, येन एतेषु हेलिकॉप्टरसेवानां संचालनं सुगमं कर्तुं शक्यते। सः अवदत् यत् पर्यटनं ऊर्जाक्षेत्रं च राज्यसर्वकारस्य प्राथमिकताक्षेत्राणि सन्ति, एतेषां क्षेत्राणां विकासाय अधिकतमं लाभं च प्राप्तुं सर्वकारः यथाशक्ति प्रयत्नान् करिष्यति। सः अवदत् यत् राज्यसर्वकारस्य प्रयत्नात् राज्ये पर्यटकानाम् आगमनं वर्धितम्, यत् राज्यस्य अर्थव्यवस्थां सुदृढीकरणे महत्त्वपूर्णं सिद्धं भवति।

HPBOSE Dharmshala: हिमाचले मार्चमासे भविष्यन्ति तृतीय-पञ्चमी-अष्टमी कक्षाणां बोर्डपरीक्षाः, समयसूची निर्णीता सर्वकाराय च प्रेषिता

हिमसंस्कृतवार्ता: – धर्मशाला। 

हिमाचलप्रदेशविद्यालयीयशिक्षामण्डलं मार्चमासे तृतीय- पञ्चमी- अष्टमी कक्षाणां वार्षिकपरीक्षा: करिष्यति। समयसूची निर्माय राज्यसर्वकाराय अनुमोदनार्थं प्रेषिता अस्ति। सचिव: डॉ. मेजर विशाल शर्मा इत्यनेन उक्तं यत् राज्यस्य विद्यालयीयशिक्षामण्डलेन राज्ये तृतीय- पञ्चमी- अष्टमी- नवमी- एकादशी कक्षाणां प्रश्नपत्राणि सज्जीकृतानि सन्ति। एतदतिरिक्तं एतेषां वर्गानां परीक्षायाः समयसूचना अपि शिक्षामण्डलेन निर्णीयते। एतेषां वर्गानां शैक्षणिकवर्षस्य २०२४-२५ तमस्य वर्षस्य वार्षिकपरीक्षा मार्चमासात् आरभ्य भविष्यति। तृतीय- पञ्चमी- अष्टमी- बोर्डपरीक्षा फरवरी-मासात् आरभ्यते इति अनुमानाः आसन्। शिक्षामण्डलेन एते अनुमानाः स्पष्टतया नाङ्गीकृताः। हिमाचलप्रदेशस्य अनेकेषु भागेषु फरवरीपर्यन्तं हिमपातः भवति इति बोर्डप्रबन्धनेन तर्कः कृतः। एतादृशे सति परीक्षायाः समये हिमपातः भवति चेत् अनेके छात्राः परीक्षायाः कृते उपस्थिताः न भविष्यन्ति। एतादृशे सति शिक्षामण्डलं मार्चमासे एव एताः परीक्षाः आयोजयिष्यति।

Himachal News: वेणुगोपालेन सह अमिलत् उपमुख्यमन्त्री मुकेश अग्निहोत्री, नवीन- कार्यकारिण्या: विषये चर्चा

हिमसंस्कृतवार्ता:- शिमला।‌

उपमुख्यमन्त्री मुकेश अग्निहोत्री सोमवासरे नवीदिल्लीनगरे अखिलभारतीयकाङ्ग्रेससमितेः संगठनमहासचिवस्य के. सी. वेनुगोपालेन सह मिलितवान्। मुकेश: वेणुगोपालं सर्वकारस्य, संस्थायाः च क्रियाकलापस्य विषये बोधितवान्। केन्द्रीयमन्त्रिभिः सह मेलितुम् आगतः मुकेशः सोमवासरे दलस्य मुख्यालयं गत्वा अन्येषां बहूनां वरिष्ठानां दलनेतृणां च साक्षात्कारं कृतवान्। दलस्य सूत्रेषु उक्तं यत् मुकेश-वेनुगोपालयोः मिलनकाले हिमाचलप्रदेशे सङ्घटितस्य काङ्ग्रेसस्य नूतनकार्यकारिण्याः विषये विस्तरेण चर्चा कृता। मुकेशः संस्थायाः सक्रियकार्यकर्तृभ्यः स्थानं दातुं चर्चां कृतवान्। वेणुगोपालः सर्वकारेण चालितानां योजनानां विषये अपि सूचितः आसीत्।

HMPV VIRUS : एचएमपीवी-विषाणो: विषये हिमाचलप्रदेशे सचेतना, एतेषां जनानां उपरि दृष्टिः स्थापयितुं निर्देशाः

हिमसंस्कृतवार्ता:- शिमला। देशे एच.एम.पी.वी.-विषाणो: त्रयाणां प्रकरणानाम् आगमनानन्तरं प्रदेशसर्वकारेण सचेतना प्रसारिता अस्ति। सर्वकारेण चिकित्सामहाविद्यालयेभ्य:, जिलाचिकित्सालयेभ्य: च सतर्काः भवन्तु इति निर्देशः दत्तः अस्ति। केन्द्रसर्वकारस्य स्वास्थ्यमन्त्रालयस्य अधिकारिणः अस्य विषये हिमाचलप्रदेशस्य स्वास्थ्यसचिवेन सह गोष्ठीं कृतवन्तः। तदनन्तरं स्वास्थ्यसचिवः चिकित्सामहाविद्यालयेभ्यः, चिकित्सालेभ्यः च कोरोनाविषाणुविषये सचेतनां प्रसारितवान्। बहिः राज्यात् हिमाचलम् आगच्छन्तः जनाः तेषु दृष्टिः स्थापयितुं प्रार्थिताः सन्ति। एनएचएम उपमिशननिदेशकः डॉ. गोपाल बैरी इत्यनेन उक्तं यत् सर्वेषां चिकित्सालयेभ्य: चिकित्सामहाविद्यालयेभ्य: सचेतना कृता अस्ति। मुख्यचिकित्सा- अधिकारी जिला शिमला डॉ. राकेशप्रताप: अवदत् यत् अस्माकं पार्श्वे पर्याप्तमात्रायाम् औषधानां मुखावरण- पीपीई किट-आक्सीजन कन्सेन्ट्रेटर- इत्यादीनां च भण्डारः अस्ति । परन्तु खण्डचिकित्साधिकारिभ्य: तथा क्षेत्रकर्मचारिभ्यः निर्देशाः निर्गताः यत् तेषां सज्जता सर्वदा पूर्णा भवतु।

हिमाचलप्रदेशे एकसहस्राधिकजनसंख्यायामेव भविष्यति नूतनपंचायतानां सङ्घटनम् सर्वकारेण मापदण्डाः निश्चिताः

 

हिमसंस्कृतवार्ता: – डॉ पद्मनाभ:।

शिमला। पंचायतीराजविभागस्य अतिरिक्तं जिला उपायुक्ताः अपि नूतनपंचायतानां सङ्घटनाय आवेदनं प्रेषयितुं शक्नुवन्ति। पंचायतीराजविभागः आवेदनानाम् अन्वीक्षणं कृत्वा पंचायतानां सङ्घटनप्रक्रियायाः प्रवर्तनं करिष्यति। प्रदेशे नूतननगरनिगम-नगरपरिषद्‌-निर्माणस्य परिणामस्वरूप पंचायतानां परिधि: अपि परिवर्तिष्यन्ते। अतः जनानां आवश्यकतानुसार नूतनपंचायतसङ्घटनस्य प्रक्रिया आरब्धा अस्ति।

प्रदेशे भौगोलिकरूपेण अनेके पंचायता: अतिविस्तृता सन्ति, यतः जनाः स्वकार्याणि साधयितुं दीर्घं मार्गं गन्तुं बाध्याः भवन्ति। पंचायतजनसंख्या तथा मतदातृसंख्यानुसार नूतनपंचायतानां सङ्घटनम् भविष्यति। जनसंख्याया: अतिरिक्तं वर्तमान पंचायतस्य मुख्यालयतः पंचकिलोमीटरमितं वा ततोऽधिकं दूरमग्रामस्य नूतनपंचायतत्वेन सङ्घटनम् भविष्यति। जनजातीयक्षेत्रेषु ग्रामपंचायतस्य यस्य जनसंख्या ७५० वा तस्मादधिकं भवति, तत्र नूतनपंचायतस्य सङ्घटनम् भविष्यन्ति। सर्वकारेण निश्चितमानदण्डानुसार पंचायतानां सङ्घटनाय आगतानां आवेदनानां परीक्षणं करिष्यते। ततः अधिसूचनाः प्रेषयित्वा आपत्तयः परामर्शा: च आमन्त्रिता: भविष्यन्ति। प्रक्रियाया: समाप्त्यनन्तरं जिला उपायुक्ताः स्वनिर्णयं दत्त्वा पंचायतीराजविभागे अनुमोदनं करिष्यन्ति। भाजपा सर्वकारस्य कालखण्डे प्रदेशे ४१२ नूतनपंचायता: निर्मिताः। वर्तमानकाले हिमाचले ३६१२ पंचायता: सन्ति।

 

प्रदेशे नूतनपंचायतसङ्घटनाय प्रक्रिया आरब्धा अस्ति। १००० जनसंख्यायाः अधिकं प्राप्य नूतनपंचायतस्य सङ्घटनम् भविष्यति। आवेदनानि आगतानि अपि। सर्वकारेण आवेदनेषु परीक्षणं करिष्यते। मापदण्डं सम्पूर्णं कृत्वा आगतानाम् आवेदनानां आधारं कृत्वा नूतनपंचायतस्य निर्माणं भविष्यति।

– अनिरुद्धसिंहः, ग्रामीणविकास पंचायतीराजमंत्री।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : आईजीएमसी-टाण्डा-नेरचौक-चिकित्सामहाविद्यालयेषु त्रीणि टेस्ला-एमआरआइ-यन्त्राणि स्थापितानि भविष्यन्ति
Next Article गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?