By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी 
हिमाचलवार्ता

Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी 

डॉ मनोज शैल
Last updated: 2024/12/20 at 8:24 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Kalka-Shimla-Rail : कालका-शिमला रेलवे-मार्गे धाविता आरक्षित- अवकाश- विशेष- लौहपथगामिनी 

हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:, शिमला।

विश्वधरोहरे कालका-शिमला-रेलमार्गे शुक्रवासरे आरक्षित- हॉलीडे- विशेष- लौहपथगामिन्या: संचालनं प्रारब्धम्। रेलवे-मण्डलस्य प्रदत्त- कार्यक्रमानुसारं ५२४४३ क्रमांकस्य रेलयानं कालकातः प्रातः ८:०५ वादने प्रस्थितम्। एतद् रेलयानं सोलने १०:४५ वादने प्राप्तम्, यत्र २ निमेषानां विलम्बेन स्थगित्वा शिमलायाः दिशि प्रस्थितम्। रेलयानस्य यात्रा शिमलायां १:४० वादने सम्पूर्णा जाता, यत्र ८१ यात्रिकाः गतवन्तः। गमनकाले धर्मपुरं, बड़ोग, सोलनं, कंडाघाट, समरहिल इत्यस्मिन् स्थानकेषु स्थगनं भविष्यति। कैथलीघाटे क्रॉसिंग-कारणेन एकं स्थगनं अपि भविष्यति। ५२४४४ क्रमांकस्य रेलयानम् शिमलातः सायं ४:५० वादने कालकायाः दिशि प्रस्थास्यति। आगमनकाले समरहिलं, कंडाघाटं, सोलन, बड़ोग:, धर्मपुरम् इत्येतेषु स्थानेषु स्थगनं भविष्यति। यानं रात्रौ ९:४५ वादने कालकायां आगमिष्यति।

रेलवेमण्डलस्य सोलनस्थानकस्य अधीक्षकः दिनेश शर्मा उक्तवान् यत् क्रिसमस-नववर्षयो: उत्सवमभिलक्ष्य एतद् हॉलीडे-विशेष-रेलयानं प्रारब्धम्। एतद् रेलयानम् एकस्मिन् दिने गमनं च आगमनं च करिष्यति। पर्यटकानां संख्या-वृद्धिं परिगण्य रेलयानस्य संचालनं क्रियते। २८ फरवरी पर्यन्तं एतद् रेलयानं सततं गमिष्यति।

एतद् भाटकं भविष्यति-

रेलयानस्य द्वयोः सामान्यकक्षयोः भाटकं ७५ रूप्यकाणि निश्चितम्। पर्यटककक्षस्य भाटकं ९४५ रूप्यकाणि, प्रथमश्रेणी-कक्षस्य भाटकं ७९० रूप्यकाणि च निर्धारितमस्ति।

पर्यटकानां प्रथमा रुचि:- टॉय-रेलयानम्

वर्षस्य अवशिष्ट-अवकाशानाम्, क्रिसमसस्य, नववर्षस्य च उत्सवाय पर्यटका: कालकातः शिमलायाः गमनागमनं कर्तुम् आरब्धवन्तः। पर्यटकनां संख्यावृद्धिं दृष्ट्वा विशेष- लौह- पथगामिन्या: संचालनं क्रियते। ज्ञातव्यम् यत् प्रतिवर्षं सहस्त्रशः पर्यटका: क्रिसमस-नववर्षयोः शिमलायां आगच्छन्ति। ततः परिवहनमार्गस्य अपेक्षया टॉय-रेलयानं पर्यटकानाम् प्रथमा रुचि: भवति, यतोहि वक्रपर्वतानां मध्ये यदा रेलयानं गच्छति तदा दृश्यम् अत्युत्तमं भवति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, HIMACHAL TOURISM, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, Kalka-Shimla-Railway, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Vidhan Sabha Winter Session: युवभ्यः जीविकां याचमाना: विधानसभापरिसरे आन्दोलने उपविष्टा भाजपा-विधायका:
Next Article HP Vidhan Sabha Winter Session: लोकसभा इव हिमाचलविधानसभायां प्रथमवारं शून्यकाल: आयोजित:, विधायकाः प्रश्नान् पृष्टवन्तः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?