HP GOVT 2025 CALENDAR: हिमाचलसर्वकारस्य २०२५ तमस्य वर्षस्य शासकीयपञ्चाङ्गम् प्रकाशितम्
हिमसंस्कृतवार्ता:- शिमला ।
हिमाचलसर्वकारस्य २०२५ तमस्य वर्षस्य शासकीयपञ्चाङ्गम् प्रकाशितम्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सर्वकारीयपञ्चाङ्ग-२०२५ इत्यस्य विमोचनं कृतवान्। अस्मिन् राज्यसर्वकारस्य विविधाः नवीनाः योजनाः प्रदर्शिताः सन्ति। एतत् पञ्चाङ्गं हिमाचलप्रदेशस्य मुद्रण-लेखन-विभागेन निर्मितम् अस्ति। अस्मिन्नवसरे राजस्वमंत्री जगतसिंह: नेगी, शिक्षामंत्री रोहितठाकुर:, मुख्यमंत्रिण: (मीडिया) प्रधानपरामर्शक: नरेशचौहान:, सचिव: प्रियंका बासु, मुद्रणं एवं लेखनविभागस्य नियंत्रक: प्रभा राजीव, सूचना एवं जनसंपर्कविभागस्य निदेशक: राजीवकुमार:, सहायकनियन्त्रक: मुद्रणम् ईश्वरदास: अन्ये च वरिष्ठधिकारिण: अपि उपस्थिता अभवन्।