क्यार्टूसंस्कृतमहाविद्यालय: “रैड् रीबन क्लब” इत्यलभत
उपरि चित्रे – मुख्यप्रशिक्षिकया श्रीमत्या रमेंदर-मनचन्दा-महोदयया सह क्यार्टूसंस्कृतमहाविद्यालयस्य प्रतिनिधय:
डॉ.सन्तोषकुमार: – राजकीय-संस्कृत-महाविद्यालय: क्यार्टू प्रथमवारं “रैड् रीबन क्लब” प्राप्तवान् । एतस्य मुख्यं प्रयोजनं “AIDS” इत्साध्यरोगात् रक्षायै जनजागरणम्, तद्रोगग्रस्तानां यथायोग्यसहयोगकरणञ्चास्ति । योजनेयं केन्द्रसर्वकारस्यास्ति । महाविद्यालयस्य प्राचार्यै: डॉ.राकेशकुमारशर्ममहाभागै: “रैड् रीबन क्लब” इत्यस्य प्रथमसमन्वयकरूपेण महाविद्यालयस्य दर्शनाचार्य: डॉ.सन्तोषकुमार: निर्दिष्ट: । नवम्बरमास्य २८ दिनाङ्के राजकीय-उपाधि-महाविद्यालय: सञ्जोली इत्यत्र तत्सम्बद्धं प्रशिक्षणं जातम् । समन्वयकेन सहिता: महाविद्यालयप्रशासनेन चिता: शास्त्रि-तृतीय-वर्षस्य रविशर्मा, हर्षितश्च शास्त्रि-द्वितीय-वर्षस्य भीष्मश्चेति त्रय: छात्रा: एतत्प्रशिक्षणमाप्नुवन् । शिमलाजनपदस्य प्रायश: ३० “रैड् रीबन क्लब” इत्येतेषां प्रतिनिधय: तत्र प्रशिक्षणं प्राप्तवन्त: । “ICTC DDU” शिमलात: आगता श्रीमती रमेंदर-मनचन्दा-महोदया तत्र मुख्यप्रशिक्षिका आसीत् ।
क्यार्टूसंस्कृतमहाविद्यालय: “रैड् रीबन क्लब” इत्यलभत
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
