संस्कृतविश्वविद्यालये तिलकधारणस्योपरि शिक्षकस्य आपत्तिः दुर्भाग्यपूर्णा- डॉ.मनोजशैलः
हिमसंस्कृतवार्ताः केन्द्रीयसंस्कृतविश्वविद्यालये बलाहरपरिसरे एकस्य हिन्दीभाषायाः शिक्षकस्य विवादः इदानीं वार्तासु वर्तते। प्राप्तविवरणानुसारं शिक्षकः छात्रैः सह हिन्दूधर्मस्य मान्यतानां विरोधे बोधयति, छात्राणाम् आरोपः अस्ति यत् शिक्षकः वदति यत् जयश्रीराम इति उद्घोषः राजनैतिकोद्घोषः अस्ति, तथा च सः सर्वदा छात्रेभ्यः तिलकधारणं कंकणवन्धनमित्यादिषु विषयेषु आपत्तिजनकान् प्रश्नान् पृच्छति। अस्मिन् विषये संज्ञानं गृहीत्वा हिमाचलसंस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षेण डॉ.मनोजशैलेन स्वीया प्रतिक्रिया प्रदत्ता, तेनोक्तं यत् संस्कृतविश्वविद्यालयेषु पाठ्यमानाः विषयाः अस्माकं वैदिकसाहित्यस्य पौराणिकसाहित्यस्य च संवर्धनं कुर्वन्ति, किञ्च तत्रत्याः छात्राः तदनुगुणं कंकणधारणं तिलकधारणञ्च कुर्वन्ति, अस्मिन् विषये कस्यापि आपत्तिः दुर्भाग्यपूर्णा अस्ति। यदि छात्राः संस्कृतविश्वविद्यालयेषु एतादृशम् आचारणं कर्तुं बद्धाः भविष्यन्ति, तु अन्यत्र विश्वविद्यालयेषु का स्थितिः वर्तते। यदि अन्याः धर्मावलम्बिनः स्व-स्व धर्मानुगुणं वस्त्रादिकं धारयन्ति, तु हिन्दूधर्मावलम्बिनः किमर्थम् न धारयितुं शक्नुवन्ति, अतः एतादृशानां शिक्षकाणां मानसिकतायाः विरोधः कर्तव्यः, ये शान्तमये हिमाचले धार्मिकम् उपद्रवं जनयन्ति। एतादृशानां हिमाचलात् निष्काषनं करणीयम्, येन हिमाचलस्य विश्वविद्यालयस्य वातावरणं शान्तिपूर्णः भवेत्। ध्यातव्यमस्ति यत् संस्कृतशिक्षकपरिषदजिलाकांगड़ा इत्यस्य अध्यक्षेण डॉ.अमनदीपशर्मणापि अस्याः घटनायाः निन्दा कृता। अस्मिन् विषये हिन्दू जागरण मञ्चम् इत्यस्य कार्यकर्तृभिरपि रोषः प्रकटितः तैः उक्तं यत् शिक्षाकेन्द्राणि अध्ययनस्य केन्द्राणि भवन्ति, यत्र विवादस्पदानां विषयाणां स्थानं नास्ति।
संस्कृतविश्वविद्यालये तिलकधारणस्योपरि शिक्षकस्य आपत्तिः दुर्भाग्यपूर्णा- डॉ.मनोजशैलः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
