By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: SPU Mandi : मंडीक्षेत्रस्य परम्परागतफलानि, जैविक- सांस्कृतिकधरोहरान् च संरक्षयितुं कार्यं कुर्वन्तु- आचार्य: ललितकुमार अवस्थी 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > SPU Mandi : मंडीक्षेत्रस्य परम्परागतफलानि, जैविक- सांस्कृतिकधरोहरान् च संरक्षयितुं कार्यं कुर्वन्तु- आचार्य: ललितकुमार अवस्थी 
हिमाचलवार्ता

SPU Mandi : मंडीक्षेत्रस्य परम्परागतफलानि, जैविक- सांस्कृतिकधरोहरान् च संरक्षयितुं कार्यं कुर्वन्तु- आचार्य: ललितकुमार अवस्थी 

डॉ मनोज शैल
Last updated: 2024/11/22 at 11:36 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

SPU Mandi : मंडीक्षेत्रस्य परम्परागतफलानि, जैविक- सांस्कृतिकधरोहरान् च संरक्षयितुं कार्यं कुर्वन्तु- आचार्य: ललितकुमार अवस्थी 

हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा

सरदारपटेलविश्वविद्यालये मंडी इत्यत्र इतिहासविभागेन भारतीय- सांस्कृतिक- निधि: (इंटेक) मंडी चेप्टरद्वारा विश्व- धरोहर- सप्ताहस्य उपलक्ष्ये अतिथिव्याख्यानस्य (विरासतचर्चा) आयोजनम् इतिहासविभागे माण्डवपरिसरे जातम्। आचार्य: ललितकुमार अवस्थी कुलपति:, सरदारपटेलविश्वविद्यालय: मंडी मुख्यातिथिरूपेण उपस्थित: आसीत्। कार्यक्रमस्य अध्यक्षता नरेश मल्होत्रा समन्वयक: इंटेक अकरोत्। आचार्य: अनुपमा सिंह प्रतिकुलपति:, आचार्य: ललितमल्होत्रा विशिष्टातिथि:, डॉ. तारासेन मुख्यवक्ता आसीत्। कार्यक्रमस्य शुभारम्भे इतिहासविभागस्य सहायकाचार्य: कार्यक्रमसंयोजकश्च डॉ. राकेशकुमारशर्मा सर्वेषां स्वागतं कुर्वन् अवदत् यत् अस्य कार्यक्रमस्य उद्देश्यं मंडीक्षेत्रस्य जैव विविधतानां, परंपराणां, वन्यफलानां च ऐतिहासिकमहत्वस्य जागरणमस्ति। मुख्यातिथि: अवदत् यत् भारतीयसांस्कृतिकनिधे: (इंटेक) स्थापना सांस्कृतिकधरोहरस्य सरंक्षण कर्तुं कृता। सः इंटेक इत्यस्य सर्वेभ्यः पदाधिकारिभ्य: सांस्कृतिकविरासतसम्बन्धे कार्यं कर्तुं शुभकामना: दत्ता:, भविष्ये च इंटेक- सरदारपटेल विश्वविद्यालय: मंडी मिलित्वा सांस्कृतिकधरोहरै: सह युनां मेलनस्य कार्यं करिष्यन्ति। सः उक्तवान् यत् सरदार पटेल विश्वविद्यालय: मंडी न्यूनातिन्यूनं पञ्च ग्रामान् स्वीकृत्य तत्रस्थानां वन्यफलानां यथा- काफलं हिसालू, आमलकं बेड़ाना इत्यादीनां प्रसंस्करणविषये उक्तवा तेभ्यः आयस्य नवीनस्रोतांसि उत्पादयितुं सहायता करिष्यनति। अनेन कीटनाशकमुक्तानि एतानि फलानि, एतेषाम् उत्पादानां च विषये सर्वे जागरुका भवेयु:, देशस्य सर्वेषु भागेषु च इदं ज्ञानं गच्छेत्। छात्राणां समीपे एतस्य ज्ञानमेव न अपि तु एतेषाम् उपयोग- महत्त्वविषये चापि अवगमनस्य आवश्यकता वर्तते। आयोजकान् वर्धापयन् तेनोक्तं यत् मंडीक्षेत्रस्य जैविक- सांस्कृतिकधरोहरान् च संरक्षयितुम् इदं प्रेरणादायकं चरणं वर्तते। मुख्यवक्तारूपेण उपस्थित: सहायकाचार्य: वनस्पतिविज्ञानं वल्लभ- राजकीय- महाविद्यालय: मंडी डॉ. तारासेन वन्यफलानां औषधीयोपयोगिता ऐतिहासिकसंदर्भाश्च प्रकाशिता:। उक्तं च यत् मंडीक्षेत्रस्य ग्रामीणजीवने वन्यफलानां च गहनमहत्त्वमस्ति। एतानि न केवलं तेषां भोजनस्य भागं, प्राचीनचिकित्साप्रणाल्याम् अपि एतेषां महत्वमस्ति। कार्यक्रमस्य अध्यक्ष: नरेश मल्होत्रा वन्यफलानां संरक्षणम् उपयोगं च प्रोत्साहयितुं परामर्शं दत्तं यत् एतदर्थं कार्यकरणस्य आवश्यकता अस्ति। आचार्य अनुपमा सिंह उक्तवती यत् परिवर्तनशीले पर्यावरणीयपरिदृश्ये एतानि दुर्लभफलानि संकटे सन्ति। अतः एतेषां संरक्षणविषये चिंतनं, कार्यं च करणीयम्। अंते इंटेक इत्यस्य सहसमन्वयक: अनिल शर्मा उपस्थितानां सर्वेषां धन्यवादम् अकरोत्। कार्यक्रमे आचार्य राजेशकुमारशर्मा अधिष्ठाता छात्र कल्याणम्, डॉ. अक्षयकुमार: विभागाध्यक्ष: भौतिकविज्ञानविभाग: डॉ. पवन चाँद विभागाध्यक्ष: प्रबंधनविभाग:, सहायकाचार्य: डॉ. शिवान:, डॉ. बलबीर:, डॉ. रामपाल:, विकेशकुमार:, शोधार्थी राहुल वेद:, इतिहास सोसायटी इत्यस्य अध्यक्षा करीमा, सुभम, अनीष, हुमा सहितम् इतिहासविभागस्य छात्रा:, भारतीय- सांस्कृतिक- नीति: मंडी चैप्टर इत्यस्य सदस्या: ललित कपूर:, राजीव कुमार:, गजेंद्र बहल:, राजीव वैद्य:, बनिता मल्होत्रा, मृदु गोयल, नीरज शर्मा, निशी कपूर हितेश वैद्यश्च उपस्थिता: आसन्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: chhoti Kashi mandi, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, sardar Patel University Mandi, SPU Mandi, छोटी काशी मण्डी, दिव्य हिमाचल समाचार, सरदार पटेल विश्वविद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP CPS APPOINTMENT CASE: मुख्यसंसदीयसचिवप्रकरणे उच्चत्तमन्यालयात् महदाश्रय:, विधायकपदे स्थास्यन्ति षड्पूर्वमुख्यसंसदीयसचिवा:
Next Article HP NEWS : पर्वतानां सम्राज्ञी शिमला इत्यत्र पर्यटका: समागताः, हिमाचलप्रदेशस्य पञ्चसु जनपदेषु वर्षा- हिमपातस्य सम्भावना।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?