By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान्
संस्कृतगतिविधयःहिमाचलवार्ता

International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान्

डॉ मनोज शैल
Last updated: 2024/11/06 at 11:14 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान्

बिजनढलवानस्य सप्तमश्रेण्याः छात्रा मुस्कान राज्यस्तरस्य प्रथमपुरस्कारं प्राप्नोत् 

हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी। अन्ताराष्ट्रीयसंस्कृत- ओलम्पियाड- ऑनलाइनपरीक्षा केन्द्रीय- संस्कृत- विश्वविद्यालयेन, नवीदिल्लीद्वारा २४-२५ सितम्बरदिनाङ्के विद्यालयमहाविद्यालयछात्राणां सामाजिकसमूहानां च कृते विभिन्नस्तरेषु आयोजिता। यस्मिन् देशस्य सर्वेभ्यः सहस्रश: छात्राः समाजसेवकाः च भागं गृहीतवन्तः। एषा प्रतियोगिता छात्राणां कृते चतुर्षु स्तरेषु आयोजिता आसीत्। बाल्यस्तरः षष्ठीतः अष्टमीपर्यन्तं, किशोरस्तरः ९ कक्षातः १२ पर्यन्तं, युवास्तरः महाविद्यालयस्तरे, प्रौढस्तरः स्नातकोत्तरस्तरे च। तथैव सामाजिकानां कृते सरलस्तरस्य उन्नतस्तरस्य च द्वयोः स्तरयोः आयोजनं कृतम् आसीत्। अस्याः अन्ताराष्ट्रीय- संस्कृत- ओलम्पियाड ऑनलाइन- परीक्षायाः परिणामः केन्द्रीय- संस्कृत- विश्वविद्यालयेन नवम्बर्-मासस्य ५ दिनाङ्के घोषितः। यस्यां मण्डीजनपदस्य बिजनढलवाने राजकीय- उच्च- विद्यालये सेवारत: संस्कृतशिक्षक: डॉ. मनोजकुमारशैल: सामाजिक- स्तरीय- प्रतियोगिताया: सरलस्तरे राष्ट्रीयस्तरे तृतीयपुरस्कारं प्राप्तवान्। सः हिमाचलतः एकमात्रशिक्षकः अस्ति यः एतत् पुरस्कारं प्राप्तवान्। पुरस्काररूपेण तेभ्यः प्रमाणपत्रं, केन्द्रीयसंस्कृतविश्वविद्यालयेन ५०००/- रूप्यकाणां नगदपुरस्कारः च दीयते।

 

संस्कृत-ओलम्पियाड-स्पर्धाया: बालस्तरे मुस्कान राज्यस्तरे प्रथमा

अस्याम् अन्ताराष्ट्रीयसंस्कृत- ओलम्पियाड- स्पर्धायां बालस्तरस्य किशोरस्तरस्य च राजकीय- उच्चविद्यालयस्य १२ छात्राः अपि भागं गृहीतवन्तः। बालस्तरस्य स्पर्धायां अस्यैव विद्यालयस्य सप्तमश्रेण्याः छात्रा मुस्कान राज्यस्तरस्य प्रथमपुरस्कारं प्राप्नोत्। अनेनैव बालस्तरे विद्यालयस्य छात्रा: ईशान: एवं गुंजन च श्रेष्ठप्रदर्शनं कृत्वा विद्यालयस्तरे द्वितीयं एवं तृतीयं स्थानं तथा किशोरस्तरे विद्यालयस्य छात्रा: विद्यालयस्तरे प्रिया, गौरव: एवं यामिनी क्रमशः प्रथमं द्वितीयं तृतीयं स्थानं प्राप्नुवन्। बिजन-ढलवानस्य राजकीय- उच्चविद्यालयस्य मुख्याध्यापिका मोनिकाठाकुर छात्राणां कृते एतस्यै उपलब्ध्यै शुभकामना: अयच्छत् अन्ताराष्ट्रीयसंस्कृत- ओलम्पियाड- स्पर्धायां राष्ट्रियस्तरस्य स्थानं प्राप्ते विद्यालयस्य शिक्षकाय मनोजकुमारशैलाय अपि शुभाशंसा: अददत्। सा अवदत् यत् विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारः शिक्षया सह संस्कृतसम्बद्धेषु सर्वेषु कार्येषु सक्रियरूपेण भागं गृह्णाति, छात्रान् च प्रेरयति। फलतः अद्य विद्यालयस्य छात्राः राज्यस्तरीय- प्रतियोगितासु, अन्ताराष्ट्रीय- संस्कृत- ओलम्पियाड-स्पर्धासु च भागं गृह्णन्ति।

उपनिदेशकेन कृतम् अभिनदनम्

मण्डीजनपदस्य प्रारम्भिकशिक्षा-उपनिदेशक: विजयकुमार: गुप्ता राष्ट्रीयस्तरे तृतीयपुरस्कारस्य प्राप्त्यर्थं बिजन-ढलवानस्य राजकीय- उच्चविद्यालयस्य शिक्षकस्य मनोजकुमारशैलस्य अभिनदनं कृतवान्। सः अवदत् यत् एतत् मण्डीमण्डलस्य कृते गौरवस्य विषयः अस्ति। डॉ. मनोजकुमारशैलः संस्कृतक्षेत्रे प्रत्येकस्मिन् कार्ये सदैव अग्रणी अस्ति तथा च विद्यालयस्तरस्य संस्कृतभाषायां प्रार्थनासभायाः आरम्भे अपि तस्य प्रयत्नाः प्रशंसनीयाः अभवन्।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

TAGGED: Central Sanskrit University, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, International Sanskrit Olympiad, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Basketball Championship : बलद्वाड़ाक्षेत्रस्य पुत्री नव्या राष्ट्रीय बास्केटबॉल प्रतियोगितायां छत्तीसगढ़े क्रीडिष्यति
Next Article Himachal Congress : हिमाचलप्रदेशकाङ्ग्रेससमिते: विघटनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?