By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतसप्ताह – 2024 : संस्कृतभाषणे बिजन- ढलवानस्य गौरव:, संस्कृतगीतिकायां कन्याविद्यालयस्य मण्ड्या: आंचल प्रथम:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतसप्ताह – 2024 : संस्कृतभाषणे बिजन- ढलवानस्य गौरव:, संस्कृतगीतिकायां कन्याविद्यालयस्य मण्ड्या: आंचल प्रथम:
संस्कृतगतिविधयःहिमाचलवार्ता

संस्कृतसप्ताह – 2024 : संस्कृतभाषणे बिजन- ढलवानस्य गौरव:, संस्कृतगीतिकायां कन्याविद्यालयस्य मण्ड्या: आंचल प्रथम:

डॉ मनोज शैल
Last updated: 2024/08/22 at 4:38 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

संस्कृतसप्ताह – 2024 : संस्कृतभाषणे बिजन- ढलवानस्य गौरव:, संस्कृतगीतिकायां कन्याविद्यालयस्य मण्ड्या: आंचल प्रथम:

संस्कृतिसदने मण्ड्यां आयोजित: संस्कृतसप्ताहमहोत्सव: -२०२४

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी। भाषासंस्कृतिविभाग: जिला मण्डीद्वारा हिमाचलप्रदेश- राजकीय- संस्कृत- शिक्षकपरिषदः सहयोगेन  बुधवासरे संस्कृतिसदनम् काङ्गणीधार- मण्डी इत्यत्र संस्कृतसप्ताहमहोत्सव:- २०२४ आचरित:। यस्य शुभारम्भ: दीपप्रज्वालनद्वारा जिलाभाषाधिकारिणी प्रोमिला गुलेरिया हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषद: प्रदेशाध्यक्ष: डॉ मनोजशैल: च अकुरुताम्। मण्डीनगरस्य १७ विद्यालयेभ्यः ६३ छात्राः संस्कृतप्रतियोगितासु भागं गृहीतवन्तः। यस्मिन् संस्कृतगीतप्रतियोगिता, संस्कृतभाषणप्रतियोगिता, संस्कृतज्ञान- प्रश्नोत्तरप्रतियोगिता च सम्पादिता। जिलाभाषाधिकारी प्रोमिला गुलेरिया अवदत् यत् विश्वे राज्ये च संस्कृतसप्ताहः आचर्यते। भाषासंस्कृतिविभागः संस्कृतशिक्षकाणां साहाय्येन राज्यस्य प्रत्येकस्मिन् मण्डले संस्कृतकार्यक्रमस्य आयोजनं कुर्वन् अस्ति। संस्कृतप्रतियोगितानां पुरस्कारवितरणसमारोहे जिल्लाभाषाधिकारिणी प्रोमिला गुलेरिया विजेतृप्रतिभागिभ्यः पुरस्कारं दत्तवती। जिलाभाषाधिकारी स्वसम्बोधने उक्तवती यत् संस्कृतं वैदिकभाषा अस्ति, तस्मात् एव विचाराः आगच्छन्ति, विद्यालयेषु अपि तस्य प्रचारः करणीयः इति। सा अवदत् यत् संस्कृतं जीवने महत्त्वपूर्णा श्रृंखला ज्ञानपरम्परायाः निधिः च अस्ति। हिमाचल- राजकीय- संस्कृत- शिक्षकपरिषदः प्रदेशाध्यक्षः डॉ. मनोजशैलः अवदत् यत् अद्य संस्कृतस्य विज्ञानस्य च समन्वयस्य आवश्यकता वर्तते, तदा एव संस्कृतं मुख्यधारायां पुनः आगमिष्यति। संस्कृतस्य व्यवहारे स्थापनार्थं सर्वै: संस्कृतशिक्षकै: संयुक्तप्रयत्नाः करणीयाः, तदा एव विकसितस्य भारतस्य कल्पना सम्भवति। असौ अकथयत् यत् परिषदा जिला राज्यस्य प्रत्येकस्मिन् विद्यालये संस्कृतशिक्षकाणां सौजन्येन विश्वे राज्ये च महता हर्षोल्लासेन संस्कृतसप्ताहः आचर्यते। संस्कृतसप्ताहे विद्यालयस्य छात्रैः संस्कृते सांस्कृतिककार्यक्रमाः, संस्कृते चित्राणि, भाषणप्रतियोगिता:, श्लोकपाठा:, लेखनकार्याणि, संस्कृतप्रदर्शनी च आयोजिता भविष्यति। 

एते विजेतारः-

संस्कृतगीतप्रतियोगितायां १७ प्रतिभागिनः भागं गृहीतवन्तः यस्यां प्रथमपुरस्कारः राजकीय- कन्या- वरिष्ठमाध्यमिकविद्यालयस्य आञ्चलशर्मा, मण्डीनगरस्य सरस्वती- विद्यामन्दिर- विद्यालयस्य कुमकुम द्वितीयं पुरस्कारं, गुरुगोविन्दसिंह- पब्लिक- विद्यालयस्य तास्किन फातमा तृतीयपुरस्कारं प्राप्तवती।

संस्कृतभाषणप्रतियोगितायां १२ प्रतिभागिनः भागं गृहीतवन्तः यस्मिन् राजकीय- उच्चविद्यालयस्य बिजन-ढलवानस्य गौरवः प्रथमपुरस्कारं प्राप्तवान्, सरस्वती- विद्यामन्दिर- विद्यालयमण्डीनगरस्य अतर्क्यः द्वितीयं पुरस्कारं प्राप्तवान्, राजकीय वरिष्ठमाध्यमिकविद्यालयस्य गागलस्य मीनाक्षी तृतीयपुरस्कारं प्राप्नोत्।

संस्कृतज्ञानप्रश्नोत्तरप्रतियोगितायां २० प्रतिभागिनः दलरूपेण भागं गृहीतवन्तः यस्यां राजकीयकन्या वरिष्ठमाध्यमिकविद्यालयस्य मण्डी इत्यस्य रीतिका गार्गी च प्रथमा, राजकीयउच्चविद्यालयस्य बिजन-ढलवानस्य साक्षी, करण ठाकुर: च द्वितीयस्थाने, गुरुगोविन्दसिंहपब्लिकविद्यालयस्य अक्षिता, सोनाली रावत च तृतीयं पुरस्कारं प्राप्तवन्त:।

राजकीय- वरिष्ठ- माध्यमिक- विद्यालयस्य  गागलस्य संस्कृत प्रवक्ता डॉ. मनोहर लाल अनमोल द्वारा कार्यक्रमस्य संचालनं कृतं, डॉ. पद्मनाभ शर्मा, हेमसिंह राव:, सुनील कुमार:, शांता कुमार:, नवनीत शर्मा, नरेश कुमार:, कृष्ण कुमार:, देवीन्द्र कुमार: च निर्णायकानां संचालकानां च दायित्वं निर्वोढवन्त:। हिमाचलराजकीय संस्कृतशिक्षकपरिषद: जिला मण्डी इत्यस्य अध्यक्ष: लोकपाल: उपस्थितानां सर्वेषां प्रतिभागिनां‌ शिक्षकाणां च धन्यवादं कृतवान्। अस्मिन्नवसरे डॉ. संदीपकुमार:, धर्मपाल:, कृष्णकुमार:, लोकसंपर्कविभागत: रविकुमार:, नरेशकुमार:, राजेन्द्रकुमार: अन्येषां विद्यालयानां संस्कृतशिक्षकाश्च उपस्थिता: आसन्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Sanskrit Saptah, दिव्य हिमाचल समाचार, संस्कृतसप्ताह, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal Cloudburst  – मेघविस्फोटस्य त्रिदिवसानन्तरं रामपुर-तकलेच-मार्गः पुनर्स्थापितः  सेबभारयुक्तानि वाहनानि निर्गतानि
Next Article Himachal News : सचिवालयस्य बहिः कर्मचारीणां रोषप्रदर्शनं घोषोद्घोषान् अकुर्वन् 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?