By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Solar Energy : आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Solar Energy : आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

Solar Energy : आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/08/07 at 9:24 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Solar Energy : आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ऊर्जाविभागस्य वरिष्ठाधिकारिभिः सह समीक्षासभां कृतवान्। सभायां सः राज्ये सौर ऊर्जायाः उत्पादनं वर्धयितुं आवश्यकतां बोधितवान्। ऊना-मण्डलस्य पेखुबेलायां ३२ मेगावाट-सौर-विद्युत्परियोजना स्थापिता, कुटलैहड़-विधानसभाक्षेत्रे १० मेगावाट- सौरविद्युत्परियोजनाया: निर्माणं प्रचलति, गगरेटविधानसभाक्षेत्रे ५ मेगावाट- सौरविद्युत्- परियोजनाया: निर्माणं प्रचलति इति सः अवदत्। राज्यम् आगामिषु षड्मासेषु प्रायः ५० मेगावाट सौर ऊर्जायाः दोहनं सुनिश्चितं करिष्यति। सः सौर ऊर्जा परियोजनानां कार्यं शीघ्रं कृत्वा समयनिर्धारितरूपेण सम्पन्नं कर्तुं तथा च नूतनानां परियोजनास्थलानां परिचयं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यस्य जनानां सौर ऊर्जा-उत्पादनक्षेत्रे प्रोत्साहनं क्रियते येन राज्यस्य जनाः एताभ्यः परियोजनाभ्यः आजीविकाम् अर्जयितुं शक्नुवन्ति। सः अवदत् यत् एताः परियोजनाः हिमाचालवासिभ्यः  आबंटिताः भविष्यन्ति, राज्यस्य जनाः च सौर ऊर्जापरियोजनानां स्थापनायै प्रोत्साहिताः भविष्यन्ति। मुख्यमन्त्री उक्तवान् यत् विद्युत्-याचना निरन्तरं वर्धमाना अस्ति, अतः जल-शक्त्या सह सौर-ऊर्जायाः अधिकतमं दोहनं सुनिश्चितं क्रियते। सौर ऊर्जा पर्यावरणस्य अनुकूलः नवीकरणीयः ऊर्जायाः स्रोतः अस्ति। एतेन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्यते, जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं शक्यते च। सौरशक्तिपरियोजनानां परिपालनं सुलभतया कर्तुं शक्यते, दीर्घायुषः च भवति। २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यरूपेण स्थापयितुं प्रतिबद्धतां पुनः उक्त्वा मुख्यमन्त्री उक्तवान् यत् एतत् लक्ष्यं प्राप्तुं राज्यसर्वकारः हरित-उद्योगानाम् प्रचारं करोति। सः अवदत् यत् वर्तमानकाले जलवायुपरिवर्तनं विश्वे सर्वाधिकं आव्हानं वर्तते, राज्यसर्वकारः हरितपरिकल्पनाद्वारा वैश्विकतापस्य प्रभावं न्यूनीकर्तुं कार्यं कुर्वन् अस्ति। राज्यसर्वकारः ई-वाहनानां संचालनं प्रवर्धयति। हिमाचलपथपरिवहननिगमस्य बसयानानि इलेक्ट्रॉनिकबससमूहे परिणमयन्ते।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Government, HP NEWS, HPCM, hpgovt, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines: विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article ED Raid : निजीचिकित्सालयानाम् तुलनापत्राणां अन्वेषणं कुर्वन्नस्ति प्रवर्तननिदेशालय:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?