By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Weather : हिमाचल-मेघविस्फोटा: वर्षायाः कारणेन विनाशः अभवत्, बसस्थानकम् अपि नष्टम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Weather : हिमाचल-मेघविस्फोटा: वर्षायाः कारणेन विनाशः अभवत्, बसस्थानकम् अपि नष्टम्
हिमाचलवार्ता

HP Weather : हिमाचल-मेघविस्फोटा: वर्षायाः कारणेन विनाशः अभवत्, बसस्थानकम् अपि नष्टम्

डॉ मनोज शैल
Last updated: 2024/08/01 at 10:49 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP Weather : हिमाचल-मेघविस्फोटा: वर्षायाः कारणेन विनाशः अभवत्, बसस्थानकम् अपि नष्टम्

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशे अद्यतनवृष्ट्या मेघविस्फोटस्य च घटनाभिः बृहत् विनाशः जातः। आनीक्षेत्रस्य निरमण्डे, कुल्लूक्षेत्रस्य मलानायां, मण्डीजनपदस्य थलटूखोडक्षेत्रे, चम्बामण्डले च मेघविस्फोटस्य कारणेन बहूनि गृहाणि, विद्यालयाः, चिकित्सालयाः च क्षतिग्रस्ताः सन्ति विभिन्नस्थानेषु ५० जनाः अदृश्याः सन्ति, चत्वार: शवा: अपि प्राप्ता: अभवन्। मण्डीमण्डले ३५ जनानां सुरक्षितरूपेण उद्धारः कृतः। एतेषां घटनानां कारणात् मण्डीमण्डलस्य पधरक्षेत्रे सर्वे विद्यालया: शैक्षणिकसंस्था: च पिहिता: आसन्,  कुल्लूजनपदस्य सर्वा: शैक्षणिकसंस्था: अपि अगस्तमासस्य द्वितीयदिनपर्यन्तं पिहिता: सन्ति।

मण्डी-जनपदस्य थलटुखोड़स्थले अर्धरात्रे मेघविस्फोटस्य घटनायाः कारणेन महती क्षतिः अभवत्। अनेकानि गृहाणि पतितानि, मार्गसंपर्कः अपि बाधित: अभवत्। तेरङ्ग- राजबन- ग्रामयो: मेघ-विस्फोट-कारणात् त्रीणि गृहाणि प्रक्षालितानि इति थलटुखोड- पंचायतप्रधान: कलीरामः अवदत्। एतावता अष्टौ जनाः अदृश्याः, द्वौ शवौ प्राप्तौ, एकः जनश्च घातित: अस्ति। मण्डीजिल्लाप्रशासनेन वायुसेनायाः उद्धारार्थं सचेष्टितं कृत्वा एनडीआरएफतः साहाय्यं प्राप्तम्। उपायुक्त: अपूर्वदेवगनः उद्धारदलं च प्रभावितक्षेत्रं प्रति प्राप्तवान्, परन्तु भग्नमार्गाणां कारणेन उद्धारकार्यक्रमेषु कठिनता वर्तते।

 

मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना अमितशाहेन सह वार्तालाप: कृत:

 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः प्रभावितक्षेत्राणां निरीक्षणार्थं हेलिकॉप्टरद्वारा शिमलात: प्रस्थितवान् अस्ति। सः अवदत् यत् ५० जनाः अदृश्याः सन्ति, एनडीआरएफ- दलद्वयमपि प्रेषितम्। मुख्यमंत्रिणा जनेभ्य: आह्वानं कृतं यत् ते नद्यः, नालिकानां च तीरस्य समीपं न गच्छन्तु, वायुसेनायै अपि सज्जतायाः निर्देशः दत्तः अस्ति। सः केन्द्रीयगृहमन्त्री अमितशाहेन सह वार्तालापं कृत्वा एनडीआरएफ-दलद्वयम् अतिरिक्तं प्रेषयितुम् अनुरोधं कृतवान्। राहुलगान्धी, प्रियङ्का गान्धी इत्येताभ्यां च सह अपि स्थितिविषये चर्चा कृता अस्ति तथा च केन्द्रात् आपदि साहाय्यं कर्तुं अनुरोधः कृतः।

समेज- उपनदस्य समीपे मेघविस्फोटः, ३६ जनाः लुप्ता:

शिमला-कुल्लू-सीम्नि मेघ-विस्फोटस्य कारणेन अपि क्षतिः अभवत्। निरमण्डखण्डस्य झाकड़ीक्षेत्रे समेजखड्ड इत्यस्य समीपे गुरुवासरे प्रातःकाले मेघः विस्फोटितः, यस्य कारणेन ३६ जनाः लुप्ता अभवन्। एतावता द्वौ जनौ सुरक्षिततया उद्धारितौ, द्वौ शवौ च प्राप्तौ। उपायुक्त: शिमला अनुपमकश्यपः उद्धारकार्यक्रमं प्रारब्धवान् अस्ति, एसडीआरएफदलानि, पुलिसउद्धारदलानि च स्थानं प्रति प्राप्तानि। मार्गनिरोधात् उद्धारदलेन पदातिरूपेण तत्स्थानं प्राप्तुं प्रयत्नः कर्तव्यः। उद्धारकार्य्ये आईटीबीपी, विशेषगृहरक्षकदलानि अपि समाविष्टानि सन्ति। कुल्लूमण्डलस्य मलनानालिकायां मेघविस्फोटस्य कारणेन मलाणा-१ तथा मलाणा-२ विद्युत्परियोजनयो: महतीक्षतिः अभवत्। पार्वतीनद्याः जलस्तरः संकटचिह्नात् उपरि वर्धितः। नदीतीरे स्थितेषु क्षेत्रेषु जनानां सुरक्षितस्थानेषु गन्तुं परामर्श: दत्त:। व्यास-तीर्थननद्यो: जलस्तरः अपि वर्धितः, जनाः नदीभ्यः, धाराभ्यः च दूरं स्थातुं प्रार्थिताः सन्ति।

 

बागीपुले बसस्थानकम् अपि प्रक्षालितम्

कुल्लूमण्डलस्य निरमण्डक्षेत्रस्य बागीपुले ८-१० गृहाणि, पटवारखाना, होटलं, आपणानि च प्रक्षालितानि सन्ति। अत्र सप्ततः १० यावत् जनाः अदृश्याः सन्ति, येषु एकस्यैव परिवारस्य सप्तजनाः सन्ति। तहसीलदारः उद्धारदलानि च स्थले एव सन्ति, अन्वेषणकार्यक्रमः च प्रचलति। निरमण्डस्य बहवः सेतुः प्रक्षालिताः सन्ति, अधिकांशः मार्गाः अपि निरुद्धाः सन्ति। बागीपुलस्य बसस्थानकम् अपि प्रक्षालितं, १५ वाहनानि जले प्रक्षालितानि च।

चम्बाजनपदे मलिनावशेषस्य अधः अष्टौ वाहनानि मग्नानि

चम्बाजनपदस्य राजनगरक्षेत्रे प्रचण्डवृष्ट्या महती क्षति: अभवत्। वर्षाकारणात् भरमौर- पठानकोटराजमार्गः, अन्ये च द्विदर्जनमार्गाः पूर्णतया स्थगिताः अभवन्। राजनगरे नालिकायां जलप्लावनकारणात् अष्टौ वाहनानि मलिनावशेषे मग्नानि सन्ति, केचन गृहाणि अपि क्षतिग्रस्तानि सन्ति।

प्रचण्डवृष्ट्या ऐतिहासिकं भलेईमातामन्दिरं प्रति गच्छति मार्गे अपि भूस्खलनं जातम्, येन मार्गस्य स्थितिः अधिका गम्भीरा अभवत् सूचना प्राप्तमात्रेण राजमार्ग- प्रबन्धन- लोकनिर्माणविभागस्य कर्मचारिणः तत्क्षणमेव सक्रियताम् अवाप्तवन्तः, यथाशीघ्रं मार्गाणां पुनर्स्थापनं कर्तुं व्यग्रा: सन्ति। आश्रय-उद्धार-कार्यक्रमाः प्रचलन्ति, स्थानीयप्रशासनं च स्थितिं नियन्त्रणे आनेतुं यथाशक्ति प्रयतते।

 

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Divya Himachal news paper, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal weather, Himsanskritnews, HP NEWS, HP weather, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines: विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article के० सं० विश्वविद्यालयस्य भोपाल-परिसरे भाषावबोधनवर्गस्य समापनसमारोह: अनुष्ठित:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?