By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: PMGSY : शताधिकजनसंख्यायुक्ताः ग्रामाः प्रधानमंत्री- ग्रामीणमार्गयोजनाया: चतुर्थे चरणे मार्गसुविधाभिः सह सम्बद्धाः भविष्यन्ति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > PMGSY : शताधिकजनसंख्यायुक्ताः ग्रामाः प्रधानमंत्री- ग्रामीणमार्गयोजनाया: चतुर्थे चरणे मार्गसुविधाभिः सह सम्बद्धाः भविष्यन्ति
हिमाचलवार्ता

PMGSY : शताधिकजनसंख्यायुक्ताः ग्रामाः प्रधानमंत्री- ग्रामीणमार्गयोजनाया: चतुर्थे चरणे मार्गसुविधाभिः सह सम्बद्धाः भविष्यन्ति

डॉ मनोज शैल
Last updated: 2024/07/31 at 9:08 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

PMGSY : शताधिकजनसंख्यायुक्ताः ग्रामाः प्रधानमंत्री- ग्रामीणमार्गयोजनाया: चतुर्थे चरणे मार्गसुविधाभिः सह सम्बद्धाः भविष्यन्ति

हिमसंस्कृतवार्ता: – नूरपूरम्। 

 

लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् पथसुविधाभ्यः वंचिताः १००तः २०० यावत् जनसंख्यायुक्ताः ग्रामाः पीएमजीएसवाई-चरण-४ मध्ये मुख्यमार्गैः सह सम्बद्धाः भविष्यन्ति। विक्रमादित्यसिंहः बुधवासरे नूरपुरे पत्रकारसम्मेलनं कृतवान्। सः अवदत् यत् केन्द्रीयबजटे पीएमजीएसवाई- चरण-चतुर्थस्य घोषणा कृता। पीएमजीएसवाई-चरण-प्रथमे अवशिष्टाः ९०० कि.मी.दीर्घाः मार्गाः अपि तस्मिन् योजिताः भविष्यन्ति। सः अवदत् यत् निर्माणकार्येषु गुणवत्ता, समयसापेक्षता, पारदर्शिता च सुनिश्चितं करणं राज्यसर्वकारस्य प्रथमा प्राथमिकता अस्ति। लोकनिर्माणविभागेन क्रियमाणेषु निर्माणकार्येषु गुणवत्तां सुनिश्चित्य सः स्वयमेव क्षेत्रं गत्वा कार्याणां निरीक्षणं कुर्वन् अस्ति। सः अवदत् यत् राज्यसर्वकारः निर्माणकार्यस्य गुणवत्तायाः विषये किमपि सन्धिं न करिष्यति।

 

निर्माणकार्येषु प्रमादस्य कारणेन अनुबन्धका: कृष्णसूच्यां भविष्यन्ति

निर्माणकार्य्ये प्रमादं कुर्वन्तः अनुबन्धका: प्रथमसचेतनायाः अनन्तरं कृष्णसूच्यां भविष्यन्ति यदि कार्यस्य गुणवत्ता निर्धारितमानकानुसारं न भवति। विभागस्य गुणवत्तानियन्त्रणपक्षः सुदृढः अभवत् इति सः अवदत्। विभिन्नस्थानेषु प्रचलति निर्माणकार्यस्य गुणवत्तायाः निरन्तरं निरीक्षणार्थं प्रतिरूपाणि ग्रहीतुं पक्षाय निर्देशः दत्तः येन गुणवत्तायाः विषये विशेषं ध्यानं दातुं शक्यते। विक्रमादित्यः अवदत् यत् नूरपुरवृत्ते विधायकप्राथमिकता, नाबार्ड, आरआईडीएफ, पीएमजीएसवाई चलण- ३ इत्येतेषां माध्यमेन ३३ मार्गेषु कार्यं क्रियते। विभागः मार्गनिर्माणे एफडीआर-प्रौद्योगिक्याः उपयोगं करिष्यति, यस्मिन् मार्गसामग्रीणां पुनः उपयोगः भविष्यति। एतेन धनस्य रक्षणे अपि च पर्यावरणसंरक्षणे अपि सहायता भविष्यति। लोकनिर्माणमन्त्री उक्तवान् यत् पीएमजीएसवाई चरण-३ अन्तर्गतं नूरपुर उपमण्डले पञ्च सेतुनिर्माणं भविष्यति। सः सूचितवान् यत् अत्र नाबार्ड-अन्तर्गतम् एककोटिरूप्यकाणां व्ययेन मार्गः, पीएमजीएसवाई-चरण-३ अन्तर्गतं ६.५ कोटिरूप्यकाणां व्ययेन च मार्गः निर्मितः। सः अवदत् यत् विभागेन नूरपुर-उपमण्डले २८.५ कोटिरूप्यकाणां निर्माणकार्यं प्रचलति। लोकनिर्माणमन्त्री उक्तवान् यत् राज्यस्य हितं मनसि कृत्वा राज्यसर्वकारः मुख्यमन्त्री सुखविन्दरसिंहसुक्खो: नेतृत्वे केन्द्रसर्वकारेण सह पूर्णसमन्वयेन कार्यं कुर्वन् अस्ति। सः सूचितवान् यत् नूरपुरनगरे यानस्थगनस्थलस्य (पार्किङ्ग) सुविधायै, मलनिकासी- (सीवरेज) सुविधायायै च धनस्य उपलब्धता सुनिश्चिता भविष्यति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP NEWS, PMGSY, PWD Department, pwd minister, Vikramaditya Singh, दिव्य हिमाचल समाचार, प्रधानमंत्री ग्रामीण सड़क योजना, लोक निर्माण मंत्री, लोक निर्माण विभाग, विक्रमादित्य सिंह, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Education Department: शिक्षकाणां स्थानान्तरणे प्रतिबन्धः, ९९ विद्यालयान् तत्क्षणं पिधातुं निर्देशाः
Next Article आगामिमासे वायुसेनायाः अभ्यासस्य ‘तरङ्ग शक्ति २०२४’ इत्यस्य आयोजनं भारतं करिष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?