By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Government : सर्वकारस्य विरुद्धं दुष्प्रचार-प्रसारणं कर्तुं द्वयोः विरुद्धं प्रकरणम् पञ्जीकृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Government : सर्वकारस्य विरुद्धं दुष्प्रचार-प्रसारणं कर्तुं द्वयोः विरुद्धं प्रकरणम् पञ्जीकृतम्
हिमाचलवार्ता

HP Government : सर्वकारस्य विरुद्धं दुष्प्रचार-प्रसारणं कर्तुं द्वयोः विरुद्धं प्रकरणम् पञ्जीकृतम्

डॉ मनोज शैल
Last updated: 2024/07/17 at 10:39 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Government : सर्वकारस्य विरुद्धं दुष्प्रचार-प्रसारणं कर्तुं द्वयोः विरुद्धं प्रकरणम् पञ्जीकृतम्

सुक्खुसर्वकारस्य विरुद्धं काङ्ग्रेसस्य मिथ्याप्रचारस्य प्रकरणाः सामाजिकमाध्यमेषु प्रकाशं प्राप्तवन्तः। शिमलापुलिसेन द्वयोः जनयो: उपालम्भे सदरपुलिसस्थानके पृथक् पृथक् प्रकरणद्वयं पञ्जीकृतम् अस्ति। ज्ञातव्यं यत् गतसोमवासरे राज्यसर्वकारेण सामाजिकमाध्यमेषु मिथ्यावार्ताप्रसारणस्य प्राथमिकीपत्रं पञ्जीकृत्य पुलिसाय निर्देशः दत्तः आसीत्।

मुख्यमन्त्रिण: (मीडिया) प्रमुखपरामर्शक: नरेशचौहानः प्रेसविज्ञप्तौ उक्तवान् यत् मुख्यमन्त्रिण: विरुद्धं सामाजिकमाध्यमेषु प्रसारितानां मिथ्यावार्तानां विषये सर्वकारेण दृढतया संज्ञानं कृतम् अस्ति तथा च एतादृशानां उन्मत्ततत्त्वानां विरुद्धं प्राथमिकी पञ्जीकर्तुं निर्देशाः दत्ताः। सः अवदत् यत् गतदिनात् मुख्यमन्त्रिणः प्रतिबिम्बं कलङ्कयितुं षड्यंत्रस्य भागत्वेन तथ्यरहितं सामाजिकमाध्यमेषु मिथ्याप्रचारः प्रसारितः अस्ति, यत् दुर्भाग्यपूर्णम् अस्ति। सः अवदत् यत् मुख्यमन्त्रीकार्यालयेन प्रचारे संलग्नानाम् एतेषां चैनलानां विरुद्धं प्राथमिकी पञ्जीकृत्य  वैधानिककार्यविधिं कर्तुं निर्देशाः दत्ताः येन मुख्यमन्त्रिण: विरुद्धं तथ्यहीनं प्रचारं स्थगितुं शक्यते।

सूचनानुसारं उपालम्भकर्तृभ्यां पुलिसाय दत्ते उपालम्भे आरोपः कृतः यत् सामाजिकमाध्यमेषु स्वकीयं समाचारचैनलं निर्माय काङ्ग्रेसपक्षस्य, सर्वकारस्य च वरिष्ठनेतृणां विरुद्धं प्रचारः क्रियते। प्रथमे प्रकरणे छोटाशिमलानिवासी प्रमोदगुप्ता आक्रोशितवान् यत् एडीएम न्यूजभारतनामकेन न्यूजचैनलेन काङ्ग्रेसपक्षस्य वरिष्ठनेतृणां राज्यसर्वकारस्य च छविं कलङ्कयितुम् उद्दिश्य सोशल मीडिया चैनले एकं चलचित्रं प्रकाशितम्। छोटाशिमलानिवासी प्रमोदगुप्तस्य उपालम्भे द्वितीयं प्रकरणं पंजीकृतम् अस्ति। स्वस्य उपालम्भे सः न्यूज-फोर् हिमालय इति नामकस्य समाचार-चैनलस्य उपरि काङ्ग्रेसपक्षस्य वरिष्ठनेतृणां राज्यसर्वकारस्य च प्रतिबिम्बं कलङ्कयति इति आरोपं कृतवान् अस्ति। तस्य मते अस्मिन् कथिते समाचारचैनलेन काङ्ग्रेससर्वकारस्य तस्य नेतृणाञ्च दुष्प्रचारं कर्तुं सामाजिकमाध्यमेषु एकं चलचित्रं स्थापितम् अस्ति। अपरपक्षे एसपी शिमला संजीवगान्धी कथयति यत् सदरपुलिसस्थानके द्वयोः प्रकरणयोः बीएनएस-इत्यस्य धारा ३३६ (४) तथा ६१ (२) इत्यस्य अन्तर्गतं पुलिसेन प्रकरणं पञ्जीकृत्य अग्रे कार्यविधि: आरब्धा।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal government, Himachal news, Himsanskritnews, HP Government, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article प्रधानमंत्रिणा नरेन्द्रमोदिना सह अमिलत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः 
Next Article Mandi News : मण्डीजनपदप्रशासनाय “गोल्डन- स्कॉच-पुरस्कार:- 2024
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?