By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News  : यदि विधेः सिद्धान्ताः सामान्य- जनेभ्यः सरल-शब्देषु नैवोपलभ्यन्ते तर्हि विधेः कार्य-क्षेत्रे विधिशिक्षायां च न्यूनता वर्तते – प्रधान न्यायाधीशः डी.वाई. चंद्रचूडः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News  : यदि विधेः सिद्धान्ताः सामान्य- जनेभ्यः सरल-शब्देषु नैवोपलभ्यन्ते तर्हि विधेः कार्य-क्षेत्रे विधिशिक्षायां च न्यूनता वर्तते – प्रधान न्यायाधीशः डी.वाई. चंद्रचूडः
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News  : यदि विधेः सिद्धान्ताः सामान्य- जनेभ्यः सरल-शब्देषु नैवोपलभ्यन्ते तर्हि विधेः कार्य-क्षेत्रे विधिशिक्षायां च न्यूनता वर्तते – प्रधान न्यायाधीशः डी.वाई. चंद्रचूडः

डॉ मनोज शैल
Last updated: 2024/07/13 at 10:34 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National & International News 

उपनिर्वाचनम्- सप्तराज्यानां त्रयोदश विधानसभासनानाम् उपनिर्वाचनस्य परिणामः उद्घोषितः, भाजपादलाय महती क्षतिः

हिमसंस्कृतवार्ताः। सप्तराज्यानां त्रयोदश विधानसभासनानाम् उपनिर्वाचनस्य परिणामः उद्घोषितः। इदानीं यावत् एकादश आसनानां परिणामः आगतः। कांग्रेस दलेन चत्वारि आसनानि तृणमूल कांग्रेस दलेन त्रीणि आसनानि च विजितानि पञ्जाबराज्ये आम आदमी पार्टीतिदलेन जालन्धर-पश्चिम विधानसभासने विजयोधिगतः। हिमाचलप्रदेशे कांग्रेसदले द्वे आसने भाजपादलेन च एकम् आसनं विजितम्। पश्चिम बङ्गाले तृणमूल कांग्रेसदलेन त्रिणि आसनानि विजितानि। 

 

केन्द्रीय-गृहमन्त्रिणा वाइब्रेंट-विलेज-कार्यक्रमस्य कार्यान्वयनस्य समीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता

हिमसंस्कृतवार्ताः। केन्द्रीय-गृहमन्त्रिणा अमितशाहेन  राजधान्यां नवदिल्ल्यां वाइब्रेंट-विलेज-कार्यक्रमस्य कार्यान्वयनस्य समीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता। अत्रावसरे गृहमन्त्री अवोचत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनं देशस्य सीमवर्ति-ग्रामाणां सर्वांगीण विकासाय प्रतिवद्धम् अस्ति। अमुना स्थानीय-निवासिभ्यः वृते अवसरप्रदानं सीमवर्ति-ग्रामेभ्यः पलायनं वारयितुं च सहभागिता-संवर्धनं सबलं प्रति पादितम्। गृहमन्त्रिणा उक्तं यत् सीमवर्ति ग्रामान् निकसा नियुक्तैः केन्द्रीय सशस्त्र आरक्षिबलेन सैन्य बलेन च सहकारि-समितिनां साहाध्येन स्थानीय कृषि-हस्तशिल्पोत्पादानां च क्रयं विधाय तेभ्यः प्रोत्साहनं प्रदातव्यम्, अपि च उक्तं यत् स्थानीय निवासिभ्यः अपि सैन्य बलेभ्यः विद्यामानानां स्वास्थ्य वैविध्यानां च लाभः प्राप्तव्यः। अस्मिन् उपवेशने केन्द्रीयगृह-सचिवः अजय भल्ला मन्त्रालयस्य अन्ये अधिकारिणश्च उपस्थितः आसन्। अवधेयं यत् वाइब्रेंट विलेज कार्यक्रमस्य अन्तर्गतं अरुणाचल-हिमाचल-सिक्किम-लद्दाख-उत्तराखण्ड- राज्यानां नवदश जनपदानां षड्चत्वारिंशत् प्रखण्डानां चयनित ग्रामाणां व्यापक विकासाय केन्द्र प्रायोजिता योजना विद्यते।

 

यदि विधेः सिद्धान्ताः सामान्य- जनेभ्यः सरल-शब्देषु नैवोपलभ्यन्ते तर्हि विधेः कार्य-क्षेत्रे विधिशिक्षायां च न्यूनता वर्तते – प्रधान न्यायाधीशः डी.वाई. चंद्रचूडः

हिमसंस्कृतवार्ताः। सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशः डी.वाई. चंद्रचूडः अवोचत् यत् यदि विधेः सिद्धान्ताः सामान्य- जनेभ्यः सरल-शब्देषु नैवोपलभ्यन्ते तर्हि विधेः कार्य-क्षेत्रे विधिशिक्षायां च नैयून्यं वर्तते। असौ  लखनऊ- नगरे डॉ. राम मनोहर लोहिया राष्ट्रीय विधि-विश्वविद्यालयस्य दीक्षान्त समारोहं सम्बोधयति स्म। अत्रावसरे मुख्य-न्यायाधीशेन क्षेत्रीयभाषाषु विधेः शिक्षा-प्रदानस्य आवश्यकता सबलं प्रतिपादिता। 

अस्मिन् अवसरे मुख्यन्यायाधीशः चन्द्रचूडः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः च छात्राणां कृते उपाधिवितरणं कृतवन्तः। श्री चन्द्रचूडः अवदत् यत् विधेः अध्यापनं कुर्वन् अस्माभिः क्षेत्रीयभाषायाः अपि विचारः करणीयः तथा च मम विश्वासः अस्ति यत्  आरएमएलएनएलयू इत्यनेन हिन्दीभाषायां विधेः पाठ्यक्रमः आरब्धः करणीयः। अस्माकं विश्वविद्यालयेषु क्षेत्रीयविषयेषु सम्बद्धाः नियमाः अपि पाठनीयाः। सः अवदत् यत् मुख्यन्यायाधीशत्वेन न्यायप्रक्रियायाः सामान्यजनानाम् अधिकसुलभतायै सः अनेकानि निर्देशानि निर्गतवान्। यथा, आङ्ग्लभाषायां प्रदत्तानां सर्वोच्चन्यायालयस्य निर्णयानां अनुवादः भारतस्य संविधाने मान्यताप्राप्तानाम् विभिन्नभाषासु क्रियते। एतेन एतेषां निर्णयानां विषयवस्तुं जनसमूहः अवगन्तुं शक्नोति। एतस्मिन् समये मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् भारतं अधुना विधिराज्यस्य कृते प्रसिद्धम् अस्ति। देशस्य धारणापरिवर्तने अस्य महती भूमिका अस्ति ।

 

अस्मिन् वित्तवर्षे‌आयकर-संग्रहणे नवदश प्रतिशतमिता वृद्धिः संजाता

 

आयकर-विभागेन वर्तमान-वित्त-वर्षाय प्रत्यक्ष-कर-रूपेण पञ्च-चत्वारिंशत्-सहस्राधिक-पड़-लक्ष-कोटि- रूप्यकाणि एकत्रितानि।  वित्तवर्षे आयकर-संग्रहणे नवदश प्रतिशन् मिता वृद्धिः संजाता। अस्य मासस्य एकादश दिनाङ्क यावत् द्वयोत्तर-नवशताधिक-सप्तति-सहस्र-कोटिरूप्याकाणि च आयकर-दातृभ्यः प्रत्यावर्तितानि। अवधेयं यत् असस्य मासस्य एकत्रिंशत् दिनाङ्कः आयकर-प्रदानाय अन्तिमोवधिः वर्तते।

 

आयुष्मानभारत प्रधानमन्त्री-जन-आरोग्य योजना च इच्छितान् उद्देश्यान् सफलतापूर्वकं पूरयन्ति-स्वास्थ्यमन्त्री जगत-प्रकाश-नड्डा

हिमसंस्कृतवार्ताः। स्वास्थ्यमन्त्री जगत-प्रकाश-नड्डा अवोचत् यच् आयुष्मान भारत प्रधानमन्त्री जन आरोग्य योजना अथ च आयुष्मान-भारत-डिजिटल-मिशन-योजनाः इच्छितान् उद्देश्यान सफलतापूर्वकं पूरयन्ति। गतदिने नव- दिल्ल्यां राष्ट्रिय-स्वास्थ्य-प्राधिकरणस्य वरिष्ठाधिकारिभिः सह स्वास्थ्यमन्त्रिणा एतासां योजनानां समीक्षा कृता। एकस्मिन् सामाजिक सञ्चारपटले स्वास्थ्यमन्त्रिणा उक्तं यत् इदानीं यावत् चतुस्त्रिंशत् कोट्यधिकानि आयुष्मान-पत्राणि जनेभ्यः प्रदत्तानि एतेषु सप्तकोट्यधिक-पत्राणां माध्यमेन चिकित्सालयेषु प्रवेशस्य सौविध्यं प्रदत्तम्।

 

भारतदेशः नवम्बरमासस्य विंशतिः दिनांकतः चतुर्विंशतिः दिनांकं यावत् गोवा-राज्ये प्रथम- विश्व-दृश्य-श्रव्य-मनोरंजन-शिखर सम्मेलन-वेव्स-इत्यस्य आयोजनं करिष्यति

हिमसंस्कृतवार्ताः। अस्मिन् वर्षे भारतदेशः नवम्बरमासस्य विंशतिः दिनांकतः चतुर्विंशतिः दिनांकं यावत् गोवा-राज्ये प्रथम- विश्व-दृश्य-श्रव्य-मनोरंजन-शिखर सम्मेलन-वेव्स-इत्यस्य आयोजनं करिष्यति। नवदिल्ल्यां गोवाराज्यस्य मुख्यमंत्री प्रमोद-सावंतः अवदीत् यत् भारतदेशः विश्वस्य बृहत् चलचित्र-निर्मातृ-देशानां श्रेण्यां वर्तते। तेन एतदपि प्रोक्तम् यत् वेव्स-इति-सम्मेलनं भारतस्य वार्ताभिकरणार्थ मनोरंजन उद्योगस्य उज्ज्वल भविष्यर्थं च महत्वपूर्ण वर्तते। कार्यक्रम सम्बोधयन् सूचना-प्रसारण मंत्री-अश्विनीवैष्णवः अवादीत् यत् वेव्स-इति-सम्मेलनं भारतस्य मनोरंजन-उद्योगस्य विकासाय महत्वपूर्ण भविष्यति।

 

कारगिल विजय दिवसावसरे  ‘स्वीयं सैन्यबलं ज्ञास्यन्तु इति नाम्ना” अस्त्रोपकरणानां प्रदर्शनी आयोजिता

भारतीयसेनया लद्दाखे कारगिल-विजय-दिवसस्य रजयजयन्त्याः पूर्वं कारगिल-हैलिपैड इति उदग्रयान-निलये ‘स्वीयं सैन्यबलं ज्ञास्यन्तु इति नाम्ना” अस्त्रोपकरणानां प्रदर्शनी आयोजिता। अत्रावसरे सैन्यबलानाम् अधिकारिणः। विद्यालयानां महा विद्यालयानां एन.सी.सी. प्रति भागिनः अन्ये जनाश्च उपस्थिताः अभवन्।

 

इण्डोनेशियायां जावानगरे दुरापादितायां बसयान-दुर्घटनायां षड् जनाः मृत्युमुपगताः

इण्डोनेशियायां जावानगरे गतप्रातः दुरापादितायां बसयान-दुर्घटनायां षड् जनाः मृत्युमुपगताः। चतुर्जशजनाञ्च व्रणिताः। स्थानीय-वार्ताभिकरणेन उक्तं यत् चालकाय निद्राकारणेन दुर्घटना अभवत्। दुर्घटना समये बसयाने द्वविंशतिः यात्रिणः आसन् ।

 

आगामि पञ्च-दिनेषु गोवा-मध्य-महाराष्ट्र-गुजरात-केरल-दक्षिणान्तरिक-कर्नाटक च प्रचण्डवृष्टे अनुमानम्

 

ऋतुविज्ञान-विभागेन आगामि पञ्च-दिनेषु गोवा-मध्य-महाराष्ट्र-गुजरात-केरल-दक्षिणान्तरिक-कर्नाटक च प्रचण्डवृष्टे अनुमानं प्रकटितम्। आगामी दिनचतुष्टये च तेलंगाना-मध्यप्रदेश-विदर्भ-छत्तीसगढेषु च प्रबल वर्षा-भवितुं शक्यते। सममेव ऋतुविज्ञान कार्यालयेन तटीयान्ध्र प्रदेशे पूर्वीय-उत्तरप्रदेशे च प्रचण्ड वर्षायाः भविष्यवाणी कृतास्ति।

 

नेपाले त्रिशूलनद्यां तरणरक्षकैः द्वितीय दिवसेऽपि अन्वीक्षणा-भियानं कृतम्

नेपाले त्रिशूलनद्यां तरणरक्षकैः सैन्यबलानां आरक्षिवलानां च दलेन दुर्घटना स्थले द्वितीय दिवसेऽपि अन्वीक्षणा-भियानं कृतम्। अत्र षष्टिः यात्रिणां बसयानद्वयं त्रिशूलीनद्यां निपतितौ। लुग्तजनानां परिवारजनाः प्रभावी-उपकरणानां माध्यमेन अन्वीक्षणाभियानस्य अभियाचना कृतवन्तः। गतदिने सिमलताले भूस्खलन- कारणात् बसयानद्वयं त्रिशूलीनद्यां निपतितौ। एकं बसयानम् काठमांडूतः गौरस्थलं प्रति गच्छति स्म द्वितीय बसयानं बीरगंजतः काठमांडूनगरं गच्छति स्म।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National & International news, अन्तर्राष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines :  प्रमुखा: संस्कृतवार्ता:
Next Article पूर्वराष्ट्रपतेः डोनाल्ड-ट्रम्पस्य उपरि आक्रमणस्य विषये अहं चिन्तितः अस्मि- नरेन्द्रमोदी।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?