By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि
हिमाचलवार्ता

HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि

डॉ मनोज शैल
Last updated: 2024/06/13 at 9:07 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि 

आईआइटी मण्डी-जम्मू-संस्थानयो: शोधस्य विषये ज्ञातम्

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशस्य बद्दी-बरोटीवाला औद्योगिकक्षेत्रयो: भूजले विषाक्ततत्त्वानि सन्ति ये कर्करोगं जनयन्ति । भारतीय-सूचना-प्रौद्योगिकी-संस्थानम् (IIT) मण्डी-जम्मू-इत्यनयोः शोधकर्तृभिः स्वस्य अध्ययने एतत् प्रकाशितम् अस्ति । अत्र जलस्य प्रतिरूपाणां रासायनिकविश्लेषणं शोधकर्तारः कृतवन्तः । अस्य क्षेत्रस्य भूजले प्रदूषितानि रासायनानि सन्ति येन कर्करोगाः इत्यादयः घातकाः रोगाः भवितुम् अर्हन्ति इति ज्ञातम् ।

अत्र जले जस्ता, सीसा, कोबाल्ट्, निकेलः, क्रोमियमः इत्येतेषां च मात्रा: प्राप्ताः सन्ति । यत् सर्वकारेण निर्धारितस्य सुरक्षितमात्रायाः अपेक्षया बहु अधिकम् अस्ति। एतादृशं दूषितं जलं पिबन् जनाः बहूभि: रोगै: पीडिताः भवन्ति । २०१३ तः २०१८ पर्यन्तं अस्मिन् क्षेत्रे कर्करोगस्य, वृक्करोगस्य च अधिकाः प्रकोपाः अभवन् ।

आईआईटी मण्डी-इत्यस्य सिविल- एण्ड-एनवायरनमेंटल-इन्जिनियरिंग- विद्यालयस्य सहाचार्य: (एसोसिएट प्रोफेसर) डॉ. दीपक: स्वामी तथा शोधकर्त्ता उत्सवराजपूत: इत्यनेन सह आईआईटी-जम्मू सिविल- इन्जिनियरिंगविभागस्य सहायकाचार्य:  डॉ. नितिन जोशी इत्यनेन सह शोधपत्रं प्रकाशितम् अस्ति। शोधपत्रं प्रतिष्ठितपत्रिकायां साइंस आफ् द टोटल एनवायरनमेण्ट् इत्यस्मिन् प्रकाशितम् अस्ति ।

प्रो. डॉ. स्वामी अवदत् यत् दूषितं भूजलं पिबन् स्वास्थ्यस्य हानिः भवितुम् अर्हति। उद्योगेभ्य: निर्गतजले जस्ता, सीसा, कोबाल्ट्, बेरियम इत्यादीनां धातुनां उपस्थितिः संकटपूर्णा भवति, यत् औद्योगिकस्रोतेभ्यः आगच्छति । व्यस्केभ्य: सर्वाधिकं संकटं कर्करोगः अस्ति, यः मुख्यतया निकेल, क्रोमियम इत्यादीनां औद्योगिकधातुनां कारणेन भवति ।

उद्योगेभ्य: प्रदूषितं जलं स्वास्थ्याय संकट: -डॉ. दीपकस्वामी

प्राध्यापकः डॉ. दीपकस्वामी उक्तवान् यत् दूषितं भूजलस्य सेवनेन स्वास्थ्यस्य महती हानिः भवितुम् अर्हति। औद्योगिकस्रोतेभ्यः सयन्त्रेभ्य: च  निर्गतजले जस्ता, सीसा, कोबाल्ट, बेरियम इत्यादीनां धातुनां उपस्थितिः अपि भयङ्करा इति उक्तवान्। व्यस्केभ्य: सर्वाधिकं संकटं कर्करोगः अस्ति, यः मुख्यतया निकेल, क्रोमियम इत्यादीनां औद्योगिकधातुनां कारणेन भवति। डॉ. दीपकस्वामी इत्यनेन उक्तं यत् तस्य निर्देशनेन शोधकर्तृणां समूहः प्राकृतिकविश्लेषणद्वारा आधुनिकप्रक्रियायाः आविष्कारं कर्तुं प्रयतते, येन औद्योगिक-एककेभ्यः प्रदूषितजलस्य भूजलं प्राप्तुं पूर्वं निर्गतस्य प्रदूषितजलस्य प्रभावः न्यूनीकर्तुं शक्यते। अस्य प्रयासस्य कृते उद्योगिनः, सर्वकारः च आवश्यका: सुविधा: प्रदास्यन्ति इति सः आशान्वित: अस्ति।

जलस्य स्वच्छतायां अधिकं ध्यानं दातव्यं भविष्यति : डॉ. नितिन: जोशी

आईआईटी जम्मू-इत्यस्य सिविल-इञ्जिनीयरिङ्ग-विभागस्य सहायक-आचार्य: डॉ. नितिन-जोशी इत्यनेन अस्य शोधस्य उद्देश्यस्य विषये उक्तं यत् बद्दी-बरोटीवाला-जलस्य अन्वेषणेन ज्ञातं यत् अस्मिन् अतीव संकटयुता: धातव: प्राप्ताः येन कर्करोगाः इत्यादयः गम्भीराः रोगाः उत्पद्यन्ते। यतः प्रदूषितभूजलस्य शोधनं अतीव जटिलं महत् च प्रक्रिया अस्ति । एतादृशे सति प्रदूषितजलस्य स्वच्छतायाः प्रौद्योगिक्याः उन्नतिं कर्तुं महती आवश्यकता वर्तते ।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Himsanskritnews, HP NEWS, IIT Mandi, Sanskrit news, आज के संस्कृत समचार, बद्दी-बरोटीवाला, संस्कृत समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल न्यूज़, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National News : राष्ट्रीयवार्ता:  PM Modi Italy Tour : प्रधानमन्त्री नरेन्द्रमोदी जी सप्त देशानां शिखरसम्मेलने भागं ग्रहणाय इटलीदेशं प्रति प्रस्थित:।
Next Article Medha Protsahan Yojana : मेधा-प्रोत्साहनयोजनायै 23 जूनपर्यन्तम् आवेदनानि
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?