By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPCM: शीघ्रमेव सहस्रश: लाभार्थिभ्यः चतुःसहस्ररुप्यकाणि मासिककोशधनम् प्रदास्यते- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HPCM: शीघ्रमेव सहस्रश: लाभार्थिभ्यः चतुःसहस्ररुप्यकाणि मासिककोशधनम् प्रदास्यते- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

HPCM: शीघ्रमेव सहस्रश: लाभार्थिभ्यः चतुःसहस्ररुप्यकाणि मासिककोशधनम् प्रदास्यते- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/06/12 at 9:23 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HPCM: शीघ्रमेव सहस्रश: लाभार्थिभ्यः चतुःसहस्ररुप्यकाणि मासिककोशधनम् प्रदास्यते- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला । 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् २०२४-२५ वित्तवर्षे सुख- आश्रययोजनायां १०६१ अनाथबालानां कृते सामाजिकसुरक्षारूपेण १.९९ कोटिरूप्यकाणि, ३,१२१ लाभार्थिभ्यः कोशधनरूपेण प्रतिमासं ४,००० रुप्यकाणि, उत्सवृत्तिरूपेण १६.८९ कोटिरूप्यकाणि च शीघ्रमेव प्रदास्यते। १०२५ अनाथबालानां कृते ६५.७६ लक्षरूप्यकाणां राशिः वितरिता भविष्यति। अस्य कृते औपचारिकतानां समाप्तेः प्रक्रिया प्रचलति। अस्याः योजनायाः अन्तर्गतं उच्चशिक्षायाः कृते ४८ लाभार्थिभ्यः १५.५२ लक्षरूप्यकाणां, व्यावसायिकप्रशिक्षणार्थं १७ बालकानां कृते ७.०२ लक्षरूप्यकाणां, कौशलविकासाय एकस्य बालकस्य कृते १७,५०० रूप्यकाणां, स्टार्टअप परियोजनानां कृते त्रयाणां बालकानां कृते ६ लक्षरूप्यकाणां आर्थिकसहायता प्रदत्ता। २०२३-२४ वर्षस्य कृते च द्वाभ्याम् अनाथबालकाभ्यां भूमिः आबंटिता अस्ति।

मुख्यमन्त्री सुखाश्रययोजनायाः माध्यमेन अनाथबालानां विश्वस्तरीयशिक्षां प्राप्तुम् आकांक्षा पूर्णा भवति। सुक्खुः अवदत् यत् बालसंरक्षणगृहस्य तिस्र: अनाथबालिकाः शिमलानगरस्य कान्वेण्ट तारा हॉल विद्यालये प्रवेशं प्राप्तवत्य:। तासां कृते शीघ्रमेव परिवहनस्य सुविधा उपलब्धा भविष्यति। बालसंरक्षणगृहस्य पञ्च बालकाः शिमलानगरस्य दयानन्दसार्वजनिकविद्यालये प्रवेशिताः सन्ति, चत्वारः अनाथबालकाः सोलननगरस्य पाइनग्रोव- विद्यालये, सुन्दरनगरस्य डीएवीविद्यालये च द्वौ बालकौ प्रवेशितौ। तेषां शिक्षायाः सम्पूर्णं व्ययः सर्वकारः वहति। राज्यस्य अन्येषु प्रतिष्ठितेषु शैक्षणिकसंस्थानेषु अधिकानाम् अनाथबालानां नामाङ्कनस्य सम्भावनाः अन्वेष्टुं सम्बन्धितविभागाय निर्देशः दत्तः। सः अवदत् यत् २०२३-२४ वित्तवर्षे मुख्यमन्त्री सुखाश्रययोजनायाः अन्तर्गतं बालसंरक्षणसंस्थासु निवसतां १०८४ बालकानां कृते १.०२ कोटिरूप्यकाणां आर्थिकसहायतायाः लाभः प्राप्तः, २७१९ लाभार्थिनश्च प्रति ४,००० रुप्यकाणां मासिकं कोशधनाय ४.३४ कोटिरूप्यकाणां आर्थिकसहायता प्रदत्ता अस्ति। बालकाः उत्साहेन उत्सवम् आचरन्ति इति सुनिश्चित्य १०८४ बालकानां कृते उत्सववृत्तिरूपेण ५९.८१ लक्षरूप्यकाणि, वस्त्रवृत्तिरूपेण ५४.२० लक्षरूप्यकाणि, पोषणवृत्तिरूपेण ३२.५२ लक्षरूप्यकाणि च वितरितानि सन्ति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP NEWS, HPCM, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal News : महिलाभ्य: १५०० रुप्यकाणि दातुं सज्जता, २३ कोटिरुप्यकाणि मुक्तानि
Next Article Bihar News : राजभवने योगस्पर्धायै प्रतिभागिनः चयनिताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?