By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: धारावाहिकं गीताप्रश्नोत्तरम् -६१
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > धारावाहिकं गीताप्रश्नोत्तरम् -६१
धर्मसंस्कृतिः

धारावाहिकं गीताप्रश्नोत्तरम् -६१

डॉ.अमनदीप शर्मा
Last updated: 2024/06/08 at 7:28 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

धारावाहिकं गीताप्रश्नोत्तरम् -६१
अर्जुनः – हे परमदेव ! नमस्तुभ्यम् । हे प्रभो ! प्रसन्नः भव । त्वम् उग्ररूपधारी वस्तुतः कोऽसि ? तत्त्वतः त्वां ज्ञातुमिच्छामि, कृपया कथय ।
श्रीकृष्णः – अर्जुन ! एतान् सर्वलोकान् समाहर्तुम् उद्यतोऽहं महाकालोऽस्मि ।
अर्जुनः – अहो, भगवन् ! अहन्तु एतद् अत्यन्तम् उग्ररूपम् अवलोक्य नितरां भीतिग्रस्तोऽस्मि । किमर्थं वा अत्र आगतोऽसि प्रभो ?
श्रीकृष्णः – इदानीं तु सर्वलोकान् समाहर्तुमेव अत्र आगतोऽस्मि अर्जुन !
अर्जुनः – एवञ्चेद् अत्र कोऽपि नावशिष्यते किं भगवन् ?
श्रीकृष्णः – भारत ! तव प्रतिपक्षीयाः यावन्तः योद्धारः सन्ति, ते सर्वे त्वयि अयुध्यमाने अपि न भविष्यन्ति । यतोहि पूर्वमेव एते सर्वे मया हताः स्युः । अतस्त्वं मोहभयादिकं विसृज्य युद्धाय उत्तिष्ठ । अनेन त्वं यशः प्राप्नुहि, शत्रून् विजित्य धनधान्यसम्पन्नं सुखप्रदं राज्यं लभस्व ।
अर्जुनः – भगवन् । तर्हि मत्कृते युद्धस्य का आवश्यकता ?
श्रीकृष्णः – हे सव्यसाचिन् ! त्वं केवलं निमित्तमात्रं भव, अलं चिन्तया ।
अर्जुनः – परन्तु भगवन् ! भीष्मद्रोणादीन् वीरान् कथं वा अहं जेतुं शक्नुयाम् ?
श्रीकृष्णः – अहो, मोहव्याकुल, अर्जुन ! मया किञ्चित् पूर्वं हि उक्तं ननु ? भीष्मः, द्रोणः, जयद्रथः, कर्णः, तथा अन्येऽपि यावन्तः शूरवीराः सन्ति, ते सर्वे पूर्वमेव मया हताः एव । अहं यान् हतवान्, तान् एव त्वं जहि । भीतिः मास्तु तव । युद्धं कुरु । युद्धे त्वं सर्वान् शत्रून् जेतुं सक्षमः भविष्यसि ।
धृतराष्ट्रः – अहो, कृष्णस्तु अर्जुनं युद्धार्थमेव वारं वारम् उत्साहयन् अस्ति । तर्हि युद्धम् अवश्यं भविष्यतीति मन्ये । ततः किम् अभूत् सञ्जय ?
सञ्जयः – राजन् ! भगवतः श्रीकृष्णस्य एतादृशानि वचनानि श्रुत्वा भयभीतः अर्जुनः, कृताञ्जलिः सन्, अतीव भीतः गद्गदवचनेन भगवन्तं प्रणम्य, भूयः स्तुवन् च एवं कथितवान्, कृपया श्रूयताम् ।
अर्जुनः – हे भगवन् ! हे अन्तर्यामिन् ! तव नामानुकीर्तनं कुर्वत् जगदिदम् अत्यन्तं हर्षितं भवति, परमम् अनुरागं च प्राप्नोति । तव तेन नामगुणकीर्तनेन भीताः राक्षसाः दशसु दिक्षु पलायन्ते । सिद्धगणाः त्वां नमस्कुर्वन्ति । एतत्तु सर्वं समुचितमेव स्यादिति । (११/३१-३६)
(अनुवर्तिष्यते) — नारदोपाध्यायः ।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

संस्कृतं विस्मृत्य भारतः स्वकीयस्मृतेः एकमध्यायं विस्मरति — प्रमोदपण्डितः

रक्षाबन्धनस्य शास्त्रीयस्वरूपम् आधुनिकसन्दर्भे तन्महत्त्वञ्च

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

TAGGED: गीता, धारावाहिक गीता
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article PWD Minister : अधिकारिभिः विकासात्मककार्याणां भवतु प्रगति:, गुणवत्तायाः अवलोकनार्थं नियमितं निरीक्षणं भवेत् विक्रमादित्यसिंह:
Next Article कृषिविभागस्य अन्तर्गतं सर्वेषु स्तरेषु रिक्तपदानि शीघ्रमेव पूरयिष्यन्ते- मंगलः पाण्डेयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?