LPG जूनमासस्य प्रथमे एव दिने (द्रवितपेट्रोलियमगैस) अनिलकोशस्य मूल्ये अपकर्षः,
हिमसंस्कृतवार्ताः,02 जून। जूनमासस्य प्रथमदिने एव जनाः महर्घतातः किञ्चित् सौख्यं प्राप्तवन्तः । तेलविपणनकम्पनयः जूनमासस्य प्रथमदिनाङ्के एलपीजीगैस इत्यस्य अनिलकोषे मूल्ये ७२ रुप्यकाणि न्यूनीकृतवन्तः। अद्यतः नूतनानि मूल्यानि प्रवर्तन्ते। परन्तु एतत् न्यूनीकरणं केवलं वाणिज्यिकगैससिलिण्डरस्य मूल्येषु एव अभवत्, यदा तु घरेलुगैससिलिण्डरस्य मूल्येषु परिवर्तनं न जातम् एतेन न्यूनीकरणेन देशस्य प्रमुखनगरेषु १९ किलोग्रामस्य वाणिज्यिकगैससिलिण्डरस्य मूल्यानि निम्नलिखितरूपेण सन्ति । सर्वप्रथमं यदि देशस्य राजधानी दिल्लीविषये वदामः तर्हि वाणिज्यिकगैससिलिण्डरस्य मूल्यं ६९.५० रुप्यकाणि न्यूनीकृतम् अस्ति। एतेन अपकर्षेण अत्र गैससिलिण्डरस्य मूल्यं अधुना १६७६ रुप्यकाणि जातम् । कोलकातायां वाणिज्यिकगैससिलिण्डरस्य मूल्यं ७२ रुप्यकाणां न्यूनतायाः सह १७८७ रुप्यकाणि, मुम्बईनगरे ६९.५० रुप्यकाणां न्यूनतायाः सह १६२९ रुप्यकाणि, चेन्नैनगरे वाणिज्यिकगैससिलिण्डरस्य मूल्यं ७०.५० रुप्यकाणां न्यूनतायाः सह १८४०.५० रुप्यकाणि च अस्ति
LPG-जूनमासस्य प्रथमे एव दिने (द्रवितपेट्रोलियमगैस) अनिलकोशस्य मूल्ये अपकर्षः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
