By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: अक्षरधाम-मन्दिरे भक्तिविषयकं बहुभाषीयं राष्ट्रियं कविसम्मेलनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > अक्षरधाम-मन्दिरे भक्तिविषयकं बहुभाषीयं राष्ट्रियं कविसम्मेलनम्
राष्ट्रीयवार्ताःसंस्कृतगतिविधयः

अक्षरधाम-मन्दिरे भक्तिविषयकं बहुभाषीयं राष्ट्रियं कविसम्मेलनम्

डॉ.अमनदीप शर्मा
Last updated: 2024/05/09 at 9:14 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

अक्षरधाम-मन्दिरे भक्तिविषयकं बहुभाषीयं राष्ट्रियं कविसम्मेलनम्

नव दिल्ली ऐषम: मई मासस्य पञ्चम्यां अक्षरधाम-मन्दिरे भक्तिविषयकं बहुभाषीयं राष्ट्रियं कविसम्मेलनम् आयोजितम्। अक्षरधाममन्दिरस्य बी.ए.पी.एस. स्‍वामीनारायण-शोध-संस्‍थाने एकं भव्यं कविसम्मलेनम् अनुष्ठितम् अभूत्। “केशव काव्य कलरव 2024” इत्याख्येSस्मिन् कवि-सम्‍मेलने शिक्षा-जगत: नैके प्रसिद्धा: दिग्गजाः उपातिष्ठन्त।

अस्मिन् बहुभाषीये सम्‍मेलने अतिथित्वेन जवाहरलाल-नेहरू-विश्वविद्यालयस्य वरिष्ठ: संस्कृत प्राध्यापक: प्रॊ. सी. उपेन्द्र राव:, जामिया मिलिया इस्लामिया विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्ष:, प्रॊ. गिरिश-चन्द्रपन्त:, लाल बहादुर-शास्त्रि-राष्ट्रिय-संस्कृत-विश्वविद्यालयस्य आचार्य: प्रॊ. भगीरथी नंदा दिल्ली विश्वविद्यालयस्य अङ्गभूतस्य हिन्दू महाविद्यालयस्य संस्कृताचार्य: डॉ. सुनील जोशी चा उपस्थिता: आसन्।

कार्यक्रमस्य आरम्भः स्वामीनारायण भजनस्य सङ्गीतमयेन वचनामृत-श्रवणेन भगवत: महिमागानेन च साकं विहित:। एतस्य अनन्तरं, काव्यपाठस्य आयोजनात् प्राक् परम्परानुपालनेन मुनिवत्सलदास-स्वामिन: (स्वामिनारायण अक्षरधाम्न: प्रभारी), सर्वनिवासदास स्वामिन: दिव्यमूर्तिदास स्वामिनश्च पावनोपस्थितौ दीप-प्रज्वालनस्य मंगलोद्घाटनम् अभूत्। कार्यक्रमस्य पूर्वस्मिन् सत्रे बी.ए.पी.एस. स्वामिनारायण-शोध-संस्थानस्य सहनिदेशककेन डॉ. ज्ञानानन्ददास स्वामिना भाषायाम् एकं स्वागत-वक्तव्यं प्रस्तुतम् प्रस्तुत। तत: परं काव्य प्रस्तुति: समारब्धा। अग्रे प्रतिभागिभि: जनै: गुरुमहिमा, परमेश्वरकृपा, गुरुमहत्त्वं, परमेश्वर-प्रेम, गुरु-कृपा, आध्यात्मिकता चेति विषयेषु निज-निज-कविता: प्रस्तुता:

प्रतिभागिनाम् उत्कृष्ट-प्रस्तुतयः पुरस्कृतीकृता:। पुरस्कारेषु कमल: श्रीमाली सर्वोत्तम: कवि:, ‘कात्यायनी’ डॉ. पूर्णिमा शर्मा सर्वोत्तमा कवयित्री, डॉ. युवराज भट्टराई-वर्य: प्रथम पुरस्कार: , रघुवीर सिंह मुलथान: द्वितीय-पुरस्कार:, अंजू तिवारी तृतीय पुरस्कार:, अक्षज श्रीवास्तवश्च सर्वोत्तम: बाल-कवि: एंजल दियोरा सर्वोत्तमा बालिकाकवयित्री इति रूपेण क्रमशः पुरस्कृता: अभूवन्।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

TAGGED: अक्षरधाम, कविसम्मेलन, राष्ट्रीय कविसम्मेलन
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article HP Election : लाहौलस्पितीतः निर्दलीयं निर्वाचनं स्पर्धयिष्यति पूर्वमन्त्री रामलालमारकण्डा भाजपा-काङ्ग्रेसयोः उपरि आक्षेपं कृतवान्
Next Article HP Election: लोकसभायै एकेन, विधानसभा उपनिर्वाचनार्थं च चतुर्भि:  नामाङ्कनं पूरितम्
2 Comments 2 Comments
  • Prof. C. Upendra Rao says:
    May 9, 2024 at 11:51 am

    संस्कृतभाषा-प्रचारोपयुक्तं कार्यमेतत् । बहुवर्धापनानि।

    Reply
    • डॉ मनोज शैल says:
      May 17, 2024 at 2:35 pm

      धन्यवाद: महोदयाय !
      अद्यत्वे कुत्र अस्ति।

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?