By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलस्य रजतकुमारः सीडीएस परीक्षायां देशे शीर्षस्थानं प्राप्तवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमाचलस्य रजतकुमारः सीडीएस परीक्षायां देशे शीर्षस्थानं प्राप्तवान्
राष्ट्रीयवार्ताःहिमाचलवार्ता

हिमाचलस्य रजतकुमारः सीडीएस परीक्षायां देशे शीर्षस्थानं प्राप्तवान्

डॉ मनोज शैल
Last updated: 2024/04/25 at 5:37 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलस्य रजतकुमारः सीडीएस परीक्षायां देशे शीर्षस्थानं प्राप्तवान्

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

संघ-लोकसेवा-आयोगेन यूपीएससी सीडीएस-२ परीक्षाया: अन्तिमपरिणामः प्रकाशितः। हिमाचलप्रदेशस्य शाहपुरगोरडाक्षेत्रस्य निवासी रजतकुमारः सीडीएसपरीक्षायां सम्पूर्णभारते प्रथमस्थानं प्राप्य राज्यस्य क्षेत्रस्य च गौरवम् आनयत्। रजतस्य एतस्याः सिद्धेः कारणात् परिवारजनानां मध्ये सुखस्य तरङ्गः वर्तते ।

शाहपुरस्य रजतः प्रशिक्षणं विना एकवर्षे एव सीडीएस- परीक्षां उत्तीर्णवान्

रजतकुमारः सीडीएस परीक्षायां सम्पूर्णे भारते प्रथमस्थानं प्राप्य शाहपुरं गौरवम् आनयत्। अस्याः परीक्षायाः परिणामः २१ एप्रिल दिनाङ्के घोषितः। विशेषं तु एतत् यत् रजतः न केवलम् अस्याः परीक्षायाः प्रशिक्षणं विना उत्तीर्णः अपितु देशे अपि शीर्षस्थानं प्राप्तवान्।

गतवर्षे एव रजतः राजकीयमहाविद्यालयशाहपुरतः बीए परीक्षायां ८२ प्रतिशतं अंकं प्राप्य महाविद्यालये शीर्षस्थाने आसीत्। अस्य कृते रजतेन छात्रवृत्तिः अपि प्राप्ता। साधारणपरिवारस्य रजतस्य पिता प्रदीपकुमारः भारतीयडाकसेवायाः भानालाशाखायां कार्यं कुर्वन् अस्ति। माता स्वस्य पुत्रस्य सफलतां दृष्ट्वा आनन्दिता अस्ति।

भराड़ीघाटस्य नमनः सीडीएस परीक्षायां १४तमं स्थानं प्राप्तवान्

अर्की उपमण्डलस्य भराड़ीघाटपञ्चायतस्य कालर- जेरीग्रामस्य नमनकुमारः सीडीएस परीक्षायां देशे १४तमं स्थानं प्राप्य स्वस्य नाम प्रसिद्धं कृतवान्। अधुना सः भारतीयसेनायां लेफ्टिनेंटरूपेण देशस्य सेवां करिष्यति। नमनकुमारस्य पिता नरेन्द्रकुमारः अपि भारतीयसेनायाः सेवां कृतवान्। माता ममता वर्मा गृहिणी अस्ति। नमनः प्रथमप्रयासे एव एतां परीक्षां उत्तीर्णः अभवत्। २० वर्षीयः नमनः स्वस्य सफलतायाः श्रेयः स्वमातापितृभ्यां परिवारजनेभ्यः च दत्तवान्। नमनः विशेषप्रशिक्षणं विना एतत् पराक्रमं प्राप्तवान्। सः दृढनिश्चयेन, स्वाध्यायेन च सफलतां प्राप्तवान्। न केवलं तस्य परिवारः अपितु सम्पूर्णः ग्रामः सोलनमण्डलं च तस्य उपलब्ध्या गर्वितः अस्ति। तस्य सफलतायाः कारणात् युनां कृते नूतना प्रेरणा, दिशा च प्राप्ता अस्ति। तस्य पदम् अन्येषां युवानां कृते उदाहरणं प्रेरणा स्रोतः च भविष्यति।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

TAGGED: CDS, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Himsanskritnews, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राष्ट्रपति प्रवास : पञ्चदिनानि यावत् पर्यटकानाम् कृते पिहितं भविष्यति रिट्रीटगृहम्
Next Article शाहपुरस्य रजतस्य सफलतां दृष्ट्वा मुख्यमन्त्री सुक्खुः – आनन्दितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?