By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अधुना पशुभ्यः अपि चिकित्सायानं, मुख्यमन्त्री १९६२ पशुचिकित्सासेवाम् आरब्धवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अधुना पशुभ्यः अपि चिकित्सायानं, मुख्यमन्त्री १९६२ पशुचिकित्सासेवाम् आरब्धवान्
हिमाचलवार्ता

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अधुना पशुभ्यः अपि चिकित्सायानं, मुख्यमन्त्री १९६२ पशुचिकित्सासेवाम् आरब्धवान्

डॉ मनोज शैल
Last updated: 2024/03/06 at 4:49 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अधुना पशुभ्यः अपि चिकित्सायानं, मुख्यमन्त्री १९६२ पशुचिकित्सासेवाम् आरब्धवान्

हिमसंस्कृतवार्ता:- शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भौमवासरे पशुपालनविभागस्य १९६२-मोबाइलपशुचिकित्सासेवायाः उद्घाटनं कृतवान्, यस्याः अन्तर्गतं प्रथमचरणस्य ४४ विकासखण्डेषु पशु-चिकित्सायानस्य (एम्बुलेन्स) व्यवस्था कृता। अस्य कृते ७.०४ कोटिरूप्यकाणां राशिः व्ययिता अस्ति। एतदतिरिक्तं मुख्यमन्त्री पशुसंजीवीनी- कॉल- केन्द्रस्य अपि उद्घाटनं कृतवान्। मुख्यमन्त्री उक्तवान् यत् एतयोः सेवयोः आरम्भेण राज्यस्य कस्यापि क्षेत्रस्य पशुकृषकाः टोलफ्रीसंख्या १९६२ इति सम्पर्कं कर्तुं शक्नुवन्ति, आपत्काले च गम्भीरपशुरोगाणां चिकित्सायाः कृते स्वद्वारे पशुचिकित्सासेवाः प्राप्तुं शक्नुवन्ति। सः अवदत् यत् प्रत्येकं पशु-चिकित्सायानेन (एम्बुलेन्स) सह पशुचिकित्सकः भैषज्ञ: च उपलभ्यन्ते। यदा कदापि कस्यचित् पशुस्वामिनः आपत्काले साहाय्यस्य आवश्यकतां अनुभवति तदा सः १९६२ इति निःशुल्कसङ्ख्यायां सम्पर्कं कर्तुं शक्नोति, समीपस्थ- पशुचिकित्सासेवायाः माध्यमेन तस्मै सहायतां प्रदास्यते। सः अवदत् यत् राज्ये पशुचिकित्सासेवाः प्रातः ९ वादनतः सायं ५ वादनपर्यन्तं कस्मिन् अपि कार्यदिने उपलभ्यन्ते। भविष्ये चरणबद्धरूपेण एतस्याः सेवायाः विस्तारः क्रियते इति सः अवदत्।  सुखविन्दरसिंहसुक्खुः इत्यनेन उक्तं यत् वर्तमानराज्यसर्वकारः पशुपालकानां हितस्य रक्षणार्थं अनेकानि पदानि गृह्णाति।

हिमाचलप्रदेशः देशस्य प्रथमं राज्यं यत् दुग्धस्य न्यूनतमसमर्थनमूल्यं प्रदत्तवान्, यत्र गोदुग्धं प्रतिलीटरं ४५ रुप्यकेण, महिषदुग्धं प्रतिलीटरं ५५ रुप्यकेण च क्रियते। सः अवदत् यत् पशुकृषकाणाम् आयं वर्धयितुं राज्यसर्वकारः काङ्गड़ामण्डलस्य ढगवारे धगवरे प्रतिदिनं एकलक्षं ५० सहस्रसेटकक्षमतया दुग्धप्रक्रियासंयंत्रं स्थापयितुं गच्छति, यस्य क्षमता प्रतिदिनं ३ लक्षसेटकं यावत् वर्धयितुं शक्यते। एतद् संयंत्रं पूर्णतया स्वचालितः भविष्यति यस्मिन् २२६ कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। सः अवदत् यत् राज्यसर्वकारः ग्रामीण- अर्थव्यवस्थां सुदृढां कर्तुं प्रयत्नान् करोति, यतः ग्रामान् स्वावलम्बनान् कृत्वा एव राज्यं स्वावलम्बनं कर्तुं शक्यते। सः अवदत् यत् कृषकाणां अर्थव्यवस्थां सुदृढं कर्तुं राज्यसर्वकारेण कृषिक्षेत्रे बहवः योजनाः आरब्धाः, कृषकै: एतासां योजनानाम् अधिकतमं लाभं ग्रहीतव्य:।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, HP NEWS, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचल संस्कृत अकादमी – सोलनसंस्कृतमहाविद्यालये महाविद्यालयीयानां संस्कृतप्रतियोगितानां शुभारम्भः
Next Article HP High Court : उच्चन्यायालये निरस्त: हिमाचलप्रदेश- जलोपकर- अधिनियम:, असंवैधानिक: घोषित:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?