हिमाचल संस्कृत अकादमी – सोलनसंस्कृतमहाविद्यालये महाविद्यालयीयानां संस्कृतप्रतियोगितानां शुभारम्भः
हिमसंस्कृतवार्ताः- डॉ. अमनदीपशर्मा।
हिमाचलसंस्कृताकादम्याः राज्यस्तरीयाणां महाविद्यालयीय- विश्वविद्यालयीयस्तरीयाणां संस्कृतप्रतियोगितानां शुभारम्भः सोमवासरे तारिणी संस्कृतमहाविद्यालये सोलने अभवत्। कार्यक्रमस्य शुभारम्भावसरे महामहोपाध्यायः केशवशर्मा महोदयः अध्यक्षत्वेन उपस्थितः आसीत्, तत्रैव श्रीलालबहादुरशास्त्री- राष्ट्रीयविश्वविद्यालयात् ज्योतिर्विदः प्रो. प्रेमशर्ममहोदयः मुख्यातिथित्वेनोपस्थितः जातः। प्रतियोगितानां विषये सूचयन् अकादम्याः सचिवः डॉ. केशवानन्दकौशलः अवदत् यत् अकादमी गतवर्षेभ्यः नैरन्तर्येण संस्कृतमहाविद्यालयाणां विश्वविद्यालयाणां संस्कृतछात्राणां कल्याणाय तेभ्यः राज्यस्तरे मञ्चप्रदातुं कार्यं कुर्वन् अस्ति। कार्यक्रमेऽस्मिन् वैशिष्ट्येन डॉ. प्रेमलालगौतमः, डॉ. राकेशशर्मा, डॉ. भानुशर्मा, डॉ. जयकृष्णः, डॉ. मुकेशशर्मा, डॉ. ज्ञानेश्वरः, डॉ. लीलाधरवात्सायनः, डॉ.ओंकारः, इत्यादयः संस्कृतज्ञाः कार्यक्रमं सफलं कर्तुं निर्णायकत्वेन सञ्चालकत्वेन व्यवस्थापकत्वेन च दायित्वं यापितवन्तः।