HP High Court : उच्चन्यायालये निरस्त: हिमाचलप्रदेश- जलोपकर- अधिनियम:, असंवैधानिक: घोषित:
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेश- जलोपकर- अधिनियमः राज्योच्चन्यायालये निरस्तीकृत्य असंवैधानिकः घोषितः अस्ति। ४० जलविद्युत्कम्पन्यः अस्य अधिनियमस्य विरोधार्थं न्यायालयं गतवन्तः आसन्। कम्पनीभिः प्रवेशितानां याचिकानां विषये राज्यस्य उच्चन्यायालयेन एषः निर्णयः दत्तः। वरिष्ठाधिवक्ता रजनीशमानिकतला एतां सूचनाम् अददत्।
तस्य मते उच्चन्यायालयेन जलोपकर- आयोगस्य सङ्घटनं राज्यसभायाः अधिकारक्षेत्रात् परं इति घोषितम्। न्यायमूर्तिः तरलोकसिंहचौहान-न्यायाधीशसत्यनवैद्ययोः संभागपीठेन एषः निर्णयः दत्तः। ध्यातव्यं वर्तते यत् राज्यसर्वकारेण राज्ये प्रचलति विद्युत् परियोजनासु जलोपकर: आरोपितः आसीत्। सुक्खुसर्वकारस्य जलोपकरतः २५०० कोटिरूप्यकाणां राजस्वस्य लक्ष्यं आसीत्। इदानीं सर्वकारः सर्वोच्चन्यायालये अस्य निर्णयस्य आह्वानं कर्तुं शक्नोति।