By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – शैक्षणिकसंस्थानेभ्य: वार्षिकक्रमाङ्कनस्य आधारेण प्रदास्यते अनुदानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – शैक्षणिकसंस्थानेभ्य: वार्षिकक्रमाङ्कनस्य आधारेण प्रदास्यते अनुदानम्
हिमाचलवार्ताप्रादेशिकवार्ता

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – शैक्षणिकसंस्थानेभ्य: वार्षिकक्रमाङ्कनस्य आधारेण प्रदास्यते अनुदानम्

डॉ मनोज शैल
Last updated: 2024/02/27 at 1:06 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – शैक्षणिकसंस्थानेभ्य: वार्षिकक्रमाङ्कनस्य आधारेण प्रदास्यते अनुदानम्

हिमसंस्कृतवार्ता:- शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शिमला ग्रामीण- विधानसभानिर्वाचनक्षेत्रे १५.४३ कोटिरूप्यकाणां व्ययेन निर्मितस्य जवाहरलालनेहरू- ललितकला- राजकीय महाविद्यालयस्य लौहारबस्य भवनस्य उद्घाटनं कृतवान्। तेन टुटूनगरे ५ कोटिरूप्यकाणां व्ययेन निर्मितस्य खण्डविकासकार्यालयभवनस्य शिलान्यासः अपि कृतः। अस्मिन् अवसरे आयोजितां जनसभां सम्बोधयता मुख्यमन्त्री ललितकलामहाविद्यालये नूतनान् पाठ्यक्रमान् आरभ्य आधुनिककक्ष्या: विकसितुं, क्रीडाक्षेत्राय २० लक्षरूप्यकाणि प्रदातुं च घोषणां कृतवान्। अस्य क्षेत्रस्य कृते बससेवा आरब्धा भविष्यति तथा च महाविद्यालये छात्रावासस्य सुविधां प्रदातुं प्रयत्नाः अपि क्रियन्ते। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः शिक्षाक्षेत्रे व्यापकोन्नयनं कुर्वन् अस्ति, गुणात्मकशिक्षायाः कृते विशेषप्राथमिकता दीयते।

सः अवदत् यत् २०२४-२५ वित्तवर्षे सर्वेषां शैक्षणिकसंस्थानेभ्य: वार्षिकक्रमाङ्कनं द्वारा कार्यप्रदर्शनाधारित-अनुदानव्यवस्थायाः आरम्भस्य च प्रावधानं कृतम्। एषा व्यवस्था युगपद्-पटलस्य (ऑनलाइन पोर्टल) मार्गेण विकसिता भविष्यति। सः अवदत् यत् पठन-लेखन-संस्कृतेः विकासाय बहु-आयामी प्रावधानाः कृताः सन्ति। ललितकला महाविद्यालयस्य आधारः पूर्वमुख्यमन्त्री वीरभद्रसिंहेन स्थापितः। सम्प्रति १७ राज्येभ्यः छात्राः अस्मिन् संस्थायां अध्ययनं कुर्वन्ति। संस्थायां उच्चगुणवत्तायुक्तशिक्षायाः सुनिश्चित्य छात्राणां कृते सर्वसम्भवा: सुविधा: प्रदत्ता: भविष्यन्ति।   

आदर्शविधानसभाक्षेत्रं भविष्यति शिमला ग्रामीणम्- विक्रमादित्यसिंह:

लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् शिमला ग्रामीणविधानसभाक्षेत्रं विकासस्य दृष्ट्या आदर्शक्षेत्ररूपेण उद्भवति, विकासकार्याय च निरन्तरगतिः दीयते। सः अवदत् यत् अस्मिन् विधानसभाक्षेत्रे एकवर्षे १७० कोटिरूप्यकाणां विकासकार्यं प्रचलति। क्षेत्रस्य विविधा: विकासात्मका: प्रार्थना: अपि मुख्यमन्त्रिणः समक्षं प्रस्तुतवान्।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Himachal news, himachal update, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राज्यसभानिर्वाचनम्: काँग्रेसस्य सचेतकस्य विरुद्धं निर्वाचनायोगं प्रति गतं भाजपादलम्
Next Article दुग्धविकासाय नाबार्डतः २५० कोटिरूप्यकाणां ऋणं ग्रहीष्यति हिमाचलसर्वकार:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?