By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: इन्दिरागांधी- आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिणां कार्यस्थगनान्दोलनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > इन्दिरागांधी- आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिणां कार्यस्थगनान्दोलनम्
हिमाचलवार्ताप्रादेशिकवार्ता

इन्दिरागांधी- आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिणां कार्यस्थगनान्दोलनम्

डॉ मनोज शैल
Last updated: 2024/02/20 at 9:32 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

इन्दिरागांधी- आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिणां कार्यस्थगनान्दोलनम्

रोगिणां दीर्घपङ्क्तयः।

हिमसंस्कृतवार्ता:- शिमला। 

हिमाचलप्रदेशस्य इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिभिः नियमितवेतनमानस्य कृते कार्य-स्थगनान्दोलनंआरब्धम् अस्ति। प्रातः ११ वादनपर्यन्तं आरकेएस-कर्मचारिणः कृष्णवर्णीय- फलकधारिणः चिकित्सालयस्य बहिः मौनविरोधं कुर्वन्ति स्म। अस्य कारणात् चिकित्सालयं आगच्छन्तः रोगिणः बहु समस्यानां सम्मुखीकरणं कर्तुं प्रवृत्ताः आसन् । यावत् तेषां याचनापूर्तिः न भवति तावत् कर्मचारिण: कार्य- स्थगनान्दोलने (पेन डाउन स्ट्राइक) एव तिष्ठन्ति इति कर्मचारिण: वदन्ति।

सोमवासरे चिकित्सालये रोगिणां दीर्घपङ्क्तिः आसीत्। एतस्य अतिरिक्तम् ओपीडी-पटले, प्राचार्यस्य, वरिष्ठचिकित्साधीक्षकस्य च कार्यालये अपि कार्यं स्थगितम् अभवत्। प्रातः ८ वादनतः रात्रौ ११ वादनपर्यन्तं चिकित्सालयस्य पंजीकरणस्थलं पिहितं भवति इति कारणेन चिकित्सालये रोगिणां चिकित्सायां विलम्बः अभवत्।

आरकेएस- संघस्य अध्यक्षः अरविन्दपालः अवदत् यत् अष्टवर्षस्य कार्यकालस्य पूर्णतायाः अनन्तरम् अपि कर्मचारीणां कृते नियमितवेतनमानं न दीयते। यत्र सः दशवर्षाधिकं यावत् अत्र कार्यं कुर्वन् अस्ति। यत्र २०१६ तमे वर्षे अष्टवर्षं पूर्णं कृतवन्तः कर्मचारिभ्य: नियमितवेतनपरिमाणं दीयते, २०१९ तमे वर्षे च ३५ कर्मचारिण: अष्टवर्षं पूर्णं कृतवन्तः, तथापि नियमितवेतनपरिमाणं न दीयते। अस्य विषये चिकित्सालयप्रशासनाय, सर्वकाराय च बहवः अनुरोधाः कृताः, परन्तु तेषाम् आग्रहाः न पूर्यन्ते, यस्मात् कारणात् ते कार्य-स्थगनान्दोलनं (पेन डाउनस्ट्राइक) आरब्धवन्तः, मंगलवासरात् चतुर्होरापर्यन्तं आन्दोलनं करिष्यन्ति।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Cm Sukhu, cmo himachal, Health, Health Department HP, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, hpgovt, IGMC Shimla, Shimla News, स्वास्थ्य विभाग, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा
Next Article राजस्वमन्त्री जगतप्रकाशनेगी : आयव्ययकेन वर्धते हिमाचलस्य विकासः, राज्यस्तरीय- छेस्चुमेलापकस्य उद्घाटने उक्तवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?