By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्री अयोध्यानगरे अन्ताराष्ट्रीय- विमानस्थानकस्य रेलस्थानकस्य च उद्घाटनं विहितवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्री अयोध्यानगरे अन्ताराष्ट्रीय- विमानस्थानकस्य रेलस्थानकस्य च उद्घाटनं विहितवान्
राष्ट्रीयवार्ताः

प्रधानमन्त्री अयोध्यानगरे अन्ताराष्ट्रीय- विमानस्थानकस्य रेलस्थानकस्य च उद्घाटनं विहितवान्

डॉ.अमनदीप शर्मा
Last updated: 2023/12/31 at 8:14 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

प्रधानमन्त्री अयोध्यानगरे महर्षि- वाल्मिकी- अन्ताराष्ट्रीय- विमानस्थानकस्य पुननिर्मितस्य अयोध्याधाम- रेलस्थानकस्य उद्घाटनं विहितवान्। वन्देभारत- अमृतभारत विशिष्टरेलयानाभ्यां हरितध्वजं प्रदर्शितवान्।
प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्रजनेभ्यः जनवरी मासस्य द्वाविंशति-पिनांके अयोध्यायाः नवनिर्मिते मंघिरे रामलला- प्राणप्रतिष्ठायाः अवसरे दीपावली- पर्व- मानितुं द्वीपप्रज्वालनाय च आहूतवान्। सः उक्तवान् यत् अस्मिन् अवसरे सम्पूर्णराष्ट्रं दीप्यमानं स्यात्। अयोध्यानगरे महर्षि- वाल्मिकी- अन्ताराष्ट्रीय- विमानस्थानकम् उ‌द्घाटयन् सप्तशताधिकपञ्च। पंचदशसहस्र-कोटि- रूप्यकाणां विविधानां विकास परियोजनानाम् आधारशिलां संस्थापयन् च प्रधानमन्त्री उक्तवान् यत् अग्रिमेषु पिवसेषु अयोध्यानगरं उत्तरप्रदेशस्य संपूर्ण विकासस्य निर्देशनं करिष्यति। अस्माकं सर्वकारः अयोध्यायाः विकासाय विशिष्टरूपेण ध्यानं ददाति यतो हि अग्रिमेषु ‌द्विवसेषु अस्मिन् स्थाने बहुलक्षकाः जनाः आगमिष्यन्ति। धार्मिकस्थलानां विकासाय स्वप्रशासनस्य कार्याणि समुल्लेखयन् प्रधानमंत्री उक्तवान् यत् विकास-संस्कृत्योः मेलनम् अस्यां एकविंशतितमायां शताब्दयां राष्ट्रम् अग्रगामिनं करिष्यति। अस्मिन् अवसरे, प्रधानमन्त्री नरेन्द्रमोदी पुननिर्मितस्य अयोध्याधाम-रेलस्थानकस्य उद्घाटनं विहितवान्, अपि च षट् वंदेभारत-रेलयानानां द्वि- नवोद्घाटितानां अमृतभारत-एक्सप्रेस रेलयानानां च हरितध्वज-प्रदर्शनेन उ‌द्घाटनं विहितवान्।प्रधानमन्त्री उक्वान् यत् नमो भारत, अमृतभारत, वंदे-भारत इत्येतानि त्रिशक्ति-नामख्यानि रेलयानानि अखिलेऽपि राष्ट्रे रेलयान-व्यवस्थायाः परिदृश्यमेव परिवर्तित भविष्यन्ति। इतः पूर्व, प्रधानमन्त्री अद्य प्रातःकाले विमानस्थानकतः पुननिर्मितस्य अयोध्याधाम- रेलयानस्थानकपर्यन्तं विशालपथसंचलनम् अपि कृतवान् यत्र महिलाः मुनीन् वृद्धजनान् समेत्य सहस्रं स्थानीयजनाः आमार्गे पुष्पवर्षया प्रधानमन्त्रिणः स्वागतं कृतवन्तः। अन्ताराष्ट्रीय विमानस्थानकस्य उद्घाटनात्पूर्व, प्रधानमन्त्री अयोध्यानगरे लतामंगेश्करचौक इत्याख्यस्य स्थानस्य निरीक्षणं कृतवान्। यत्र एकायाः विशालसभायाः वीणायाः प्रतिमा संस्थापिता अस्ति, स्थानमिम् “राम की पैड़ी” इत्याख्यस्य स्थानस्य समीपम् एकः प्रमुखः चतुष्पथः अस्ति। अस्मिन् अवसरे केन्द्रीय-नागरिक उड्डयन मन्त्री ज्योतिराधित्य सिंधियाः केन्द्रीय रेलमंत्री अश्विनी वैष्णवः, उत्तरप्रदेशस्य राज्यपाल पासीना आनंदी बेन पटेलः, अथ राज्यस्य मुख्यमन्त्री योगी आदित्यनाथश्च समुपस्थिताः आसन्।
प्रधानमन्त्री नरेन्द्र मोदी अद्य आकाशवाणीतः ‘मन की बात’ कार्यक्रममाध्यमेन राष्ट्रजनैः सह विचारविनिमयं करिष्यति। ‘मन की बात’ कार्यक्रमस्य अष्टाधिकशततमस्य संस्करणस्य प्रसारणम् आकाशवाणीद्वारा प्रातःकाले एकादशवादने भविष्यति। अयं कार्यक्रमः प्रधानमन्त्री कार्यालय, सूचना- प्रसारण- मन्त्रालय डीडीन्यूज चेत्येतेषां यूट्यूब-वाहिनीषु सद्यः प्रसारितं भविष्यति।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: अयोध्या, अयोध्या एयरपोर्ट, अयोध्या राम मन्दिर, अयोध्या रेलवे स्टेशन, प्रधानमन्त्री नरेन्द्र मोदी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article New Year 2024 : २०२३ वर्षस्य प्रियाः अप्रियाश्च स्मृतयः उपलब्धयश्च
Next Article श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?