By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वेदविद्या- वैदिककर्मकाण्डस्य स्वरूपम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > वेदविद्या- वैदिककर्मकाण्डस्य स्वरूपम्
धर्मसंस्कृतिः

वेदविद्या- वैदिककर्मकाण्डस्य स्वरूपम्

डॉ.अमनदीप शर्मा
Last updated: 2023/12/24 at 8:19 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

वेदविद्या वैदिककर्मकाण्डस्य स्वरूपम्

वेदस्य प्रधानं लक्ष्यं हि ज्ञानदानं, येन प्राणिमात्रम् अस्य संसारस्य बन्धनकारणम् अभिज्ञाय अस्मात् मुक्तिं लब्धुं शक्नुयात्। अतो वेदेषु कर्मकाण्डं तथा ज्ञानकाण्डम् इत्यनयोः विषययोः सर्वाङ्गीणनिरूपणं कृतं वर्तते। वेदानां प्रारम्भिकभागः कर्मकाण्डं वर्तते, अपरभागश्च ज्ञानकाण्डमिति। अनयोः कर्मकाण्डं विशालतरम्। कर्मकाण्डे यज्ञानुष्ठानस्य विधिनिषेधात्मकं सर्वाङ्गीणं विवेचनं कृतमस्ति। अस्य भागस्य प्रधानोपयोगस्तु यज्ञानुष्ठानेषु हि भवति। यो वैदिकविद्वान् यजमानद्वारा यज्ञाचरणस्य अधिकारं प्राप्तवान् अस्ति, सः ‘ऋत्विक्’ उच्यते। एतादृशां ऋत्विजां चत्वारः भागाः सन्ति- होतृगणः, अध्वर्युगणः, उद्गातृगणः, ब्रह्मगणः चेति। एतस्य गणचतुष्टयस्य कारणतः, प्रत्येकं वर्गाणाम् उपयोगिमन्त्राणां सङ्ग्रहानुसारं वेदाः अपि चत्वारः अभवन्। तत्संक्षेपेणात्र निरूप्यते-
ऋग्वेदः- अस्मिन् वेदे होतृवर्गस्य कृते उपयोगिमन्त्राणां संकलनं कृतं प्राप्यते। अत्र ‘ऋक्’ इति संज्ञकमन्त्राणाम् अधिकता प्राप्यते। अस्मिन् वेदे मन्त्रसंख्या अन्यवेदानाम् अपेक्षया अधिका।
यजुर्वेदः- अस्मिन् वेदे यज्ञानुष्ठानार्थम् अध्वर्युवर्गस्य कृते उपयोगिमन्त्राणां संकलनमस्ति। अत्र गद्यात्मकमन्त्राणां बहुलता अवलोक्यते।
सामवेदः- अस्मिन् वेदे यज्ञानुष्ठानार्थम् उद्गातृवर्गस्य कृते उपयोगिमन्त्राणां संकलनमस्ति। अत्र गायनपद्धतेः निश्चितमन्त्राः उपलभ्यन्ते- ‘गीतिषु सामाख्या’ इति।
अथर्ववेदः- अत्र यज्ञानुष्ठानार्थं ब्रह्मवर्गस्य कृते उपयोगिमन्त्राणां संकलनम् उपलभ्यते। ब्रह्मवर्गस्य कार्यं यत् यज्ञस्य विधिनिरीक्षणं, नियमानुसारं निर्देशादेशदिप्रदानं, त्रुट्यवसरे प्रायश्चित्तविधानम् इत्यादिकमिति, शम्।
-नारदः।

You Might Also Like

श्रीवामदेवसंस्कृतमहाविद्यालये पञ्चत्रिंशद्बटूनां यज्ञोपवीतसंस्कारः

श्रीभगवत्कृपाशक्तिः-नारदोपाध्यायः

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

वाल्मीकिरामायणस्य बालकाण्डसमीक्षा-डॉ विमलेश झा

TAGGED: कर्मकाण्ड, भारतीय ज्ञान परम्परा, वेद, वैदिक कर्मकाण्ड
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article विवेकबिन्द्रा विवादः चर्चायामस्ति, पत्नीं ताडनस्य अस्ति आरोपः
Next Article महाभारतकथा-त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?