By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: द्वितीय-हरिद्वार-जिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > द्वितीय-हरिद्वार-जिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023
संस्कृतगतिविधयः

द्वितीय-हरिद्वार-जिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023

डॉ.अमनदीप शर्मा
Last updated: 2023/12/16 at 11:06 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE
द्वितीयहरिद्वारजिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023 संस्कृतछात्रक्रीडाप्रतियोगिताः स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयस्य ज्वालापुरस्य दलेन ४०-४ श्रृंखलायां विजयः प्राप्तः 800 मीटर् धावने नरेन्द्रडुडरियाल: वरिष्ठवर्गे देवांश: कनिष्ठवर्गे प्रथम: वार्ताहर:-कुलदीपमैन्दोला।हरिद्वारं। स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयज्वालापुरे, हरिद्वारे परिसरे सर्वजिलासंस्कृतविद्यालयद्वारा/महाविद्यालयद्वारा “द्वितीयहरिद्वारजिलास्तरीयसंस्कृतछात्रक्रीडाप्रतियोगिता- 2023” प्रारब्धा । यत्र प्रथमदिनस्य शुभावसरे उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः डॉ. दिनेशचन्द्रशास्त्री, संस्कृतनिदेशालयस्य निदेशकः श्री एस.पी.खाली, वैदिकशोधसंस्थानस्य अध्यक्षः स्वामी मित्रदेवः, सहायकनिदेशकः डॉ. वाजश्रवा आर्य: पतंजलिगुरुकुलस्य प्राचार्य: स्वामी ईशदेव: स्वामी दर्शनानन्द: गुरुकुलस्य आचार्य: स्वामी आदित्यदेव: , स्वामीनारायणदेव: स्वामी विरक्तदेव: , स्वामी संकल्पदेव:, स्वामी सनातनदेव: , संस्थाया: मुख्याधिष्ठाता श्री क्षेत्रपालसिंहचौहान:, उत्तराखण्डसंस्कृत-अकादम्या: शोधाधिकारी डॉ. हरीशचन्द्रगुरुरानी, कार्यक्रमसंयोजक: डॉ. नवीनपन्त:, डॉ.प्रकाशजोशी, आचार्य: पं. हेमन्ततिवारी एवं श्री असीमकुमार: आदय: महानुभावा: दीपं प्रज्ज्वाल्य कार्यक्रमस्य शुभारम्भं कृतवन्त: । अवसरेस्मिन् संस्थाया: उपमन्त्री श्री अनिलगोयल:, पूर्वमुख्यनिदेशक: डॉ. यशवंतसिंहचौहान:, संस्थाया: उपाध्यक्ष: श्री अजय: नंबरदार इत्यादय: गणमान्या: कार्यक्रमस्य शोभां वर्धितवन्त: । अस्मिन् अवसरे गुरुकुलस्य छात्रैः स्वागतगीतं, गीतापाठं, योगप्रदर्शनं च कृतम् । कार्यक्रमस्य मुख्यातिथिः वैदिकशोधसंस्थायाः अध्यक्षः स्वामी मित्रदेव: उक्तवान् यत् क्रीडायाः यथा अधिकं मनोरञ्जनं भवति तथा मनुष्यः मानसिकतया शारीरिकतया च स्वस्थः भवति। कार्यक्रमस्य विशेषातिथिः संस्कृतनिदेशालयस्य निदेशकः च एस.पी.खाली अवदत् यत् संस्कृतस्य अध्ययनेन सह क्रीडा छात्राणां सर्वतोन्मुखविकासे अपि सहायकं भवति। कार्यक्रमस्य अध्यक्षतां कुर्वन् उत्तराखण्ड संस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. दिनेशचन्द्रशास्त्री इत्यनेन उक्तं यत् क्रीडा अस्माकं जीवनस्य अभिन्नः भागः अस्ति।हरिद्वार-जिला-स्तरीय-संस्कृत- छात्र-प्रतियोगितायाः आयोजकाः, संस्कृत-शिक्षा-निदेशकः श्री एस.पी.खाली, सहायक-निदेशकः डा.वजश्राव-आर्यः च अभिनन्दन-पात्राः सन्ति, ये महाविद्यालय-परिसर-मध्ये विविध-क्रीडा-प्रतियोगितानां आयोजनं कृत्वा संस्कृत-छात्राणां मध्ये क्रीडां प्रति रुचिं जनितवन्तः।
क्रीडायां विजयः पराजयः च क्षणाय एव, परन्तु जीवने ऊर्जा आजीवनं स्थास्यति इति सुनिश्चित्य क्रीडा आवश्यकी अस्ति- “आचार्यबालकृष्ण:”
द्वितीयदिवसावसरे पतंजलियोगपीठन्यासस्य महासचिव: आचार्य: बालकृष्णमहाराजः क्रीडकान् अभिनन्दितवान्।आशीर्वादं दत्त्वा सः अवदत् यत् क्रीडायां विजयः पराजयः च क्षणाय एव, परन्तु जीवने ऊर्जा आजीवनं स्थास्यति इति सुनिश्चित्य क्रीडा आवश्यकी अस्ति। क्रीडकानां प्रदर्शनं आश्चर्यजनकं रोमाञ्चकं च आसीत् । अस्माकं क्रीडकाः संस्कृतक्षेत्रे अपि च क्रीडाक्षेत्रे विजयी भवन्तु। करवर्धिनी इत्यस्य अन्तिमक्रीडा श्री जगद्गुरुश्रीचन्द्रसंस्कृतमहाविद्यालयस्य स्वामीदर्शनानन्दगुरुकुल- महाविद्यालयस्य ज्वालापुरस्य च मध्ये अभवत् यस्मिन् स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयस्य ज्वालापुरस्य दलेन ४०-४ श्रृंखलायां विजयः प्राप्तः। कबड्डी-क्रीडायाः निर्णायकाः भरतभूषणमहोदयः, मनोजकुमारमहोदयः च आसन्। अस्मिन् अवसरे सर्वेषां संस्कृतविद्यालयानाम् प्राचार्याः, शिक्षकाः, छात्राः च उपस्थिताः आसन् । सहायकनिदेशकः डा.वजश्रवा आर्यः अवदत् यत् शेषक्रीडाप्रतियोगिता अपि श्वः १७ दिसम्बर् दिनाङ्के भविष्यति तथा च पुरस्कारवितरणं अपराह्णे २ वादनात् सम्भूयते। वरिष्ठवर्गे 800मीटर् धावने ऋषिकुलविद्यापीठब्रह्मचर्याश्रम- संस्कृतमहाविद्यालयस्य प्रतियोगी छात्र: नरेन्द्रडुडरियाल: प्रथम:, स्वामीदर्शनानन्द- गु०म०वि०ज्वालापुरस्य प्रतियोगी छात्र: वंश: द्वितीय: एवं स्वामी दर्शनानन्द गु०म०विद्यालयस्य प्रतियोगी छात्र: सन्नी तृतीय: स्थानं प्राप्तवन्त: । कनिष्ठवर्गे 800 मीटर् धावने स्वामीदर्शनानन्दगुरुकुल- महाविद्यालयज्वालापुरस्य प्रतियोगी छात्र: देवांश: प्रथम: स्वामीदर्शनानन्दगुरुकुलमहाविद्यालयज्वालापुरस्य प्रतियोगी छात्र: शिवम: द्वितीय: एवं ऋषिकुलविद्यापीठब्रह्मचर्याश्रमस्य प्रतियोगी छात्र: दीपांशु खन्तवाल: तृतीयस्थानं प्राप्तवन्त: । द्वितीयदिवसेपि हस्तकन्दुकप्रतियोगिता प्रचलन्ती एव आसीत् । यस्य परिणाम: अग्रिमदिवसे प्रकाश्यते । जनपदस्तरीयक्रीडाप्रतियोगितासु स्वामी शम्भुदेव सं०म०विद्यालय: , श्री उदासीन सं०म०विद्यालय: , भोलागिरी सांगवेद सं०म०विद्यालय: , श्री जगद्गुरु श्री चन्द्र सं०म०विद्यालय: , श्री जगदेव सिंह सं०म०विद्यालय: , श्रीनिर्मलसंस्कृतमहाविद्यालय: स्वामी दर्शनानन्द गु०म०वि०, ऋषिकुलविद्यापीठसंस्कृत महा०. गरीबदासीयसाधुसं०म०वि०, श्री भारतीसंस्कृतविद्यालय:, श्री चेतनज्योति सं०म०वि०, ऋषिसंस्कृतमहाविद्यालय:, श्री गीतासंस्कृत उ०म०वि०, श्रीरामानुज श्री वैष्णव सं०म०वि०, श्री गुरुमण्डलाश्रम सं०म०वि०, आदय: संस्कृतशिक्षणसंस्था: प्रतिभागं कृतवन्त: । क्रीडाप्रतियोगितानां कार्यक्रमस्य सफलसंचालनं डॉ० नवीनपन्त: एवं डॉ० प्रकाशचन्द्रजोशी संयुक्तरुपेण कृतवन्त: । अवसरेस्मिन् समस्तसंस्कृतविद्यालयानां प्राचार्या:, आचार्या:, शिक्षकगणा: एवं छात्रा: उपस्थिता: आसन् ।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः
Next Article अहिंसाभावः मनुष्यम् उद्धरति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?